SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥२७२॥ Jain Education Int वर्णकं सम्पूर्ण समस्तं सूत्रं वाच्यमिति शेषः, एनमेवार्थं निगमयन्नाह - 'तए ण' मित्यादि, ततो- भरताज्ञानन्तरं ते | देवा उक्तविशेषणविशिष्टमभिषेकमण्डपं विकुर्वन्ति विकुर्व्य च यत्रैव भरतो राजा यावत्पदात् 'तेणेव उवागच्छन्ति २ एअमाणत्तिअं' इति ग्राह्यं, 'तए ण' मित्यादि, व्यक्तं, अथैतत्समयोचितं भरतकृत्यमाह - 'तए ण' मित्यादि, प्राग्वत्, 'तए ण' मिति ततस्तस्य भरतस्य राज्ञः आभिषेक्यं हस्तिरत्नमारूढस्य सत इमान्यष्टावष्टौ मङ्गलकानि पुरतः सम्प्रस्थितानीति शेषः, अथ ग्रन्थलाघवार्थमतिदिशति - य एव गमो विनीतां प्रविशतः स एव तस्य निष्क्रामतोऽपि भरतस्य, कियदन्तमित्याह - यावदप्रतिबुद्ध्यन् २ विनीतां राजधानीं मध्यंमध्येन निर्गच्छति, शेषं व्यक्तं, ततः किं चक्रे इत्याह'पचोरुहिता इत्थीरयणेण 'मित्यादि, ततः स भरतो राजा स्त्रीरलेन सुभद्रया द्वात्रिंशता ऋतुकल्याणिकासहस्रैः द्वात्रिंशता जनपदकल्याणिकासहस्रैः द्वात्रिंशता द्वात्रिंशद्वद्धैर्नाटकसहस्रैः सार्द्ध संपरिवृतोऽभिषेकमण्डपमनुप्रविशति अनुप्रविश्य च यत्रैवाभिषेकपीठं तत्रैवोपागच्छति उपागत्य चाभिषेकपीठमनुप्रदक्षिणीकुर्वन् २ 'स्वामिदृष्टे भक्तजनः प्रमोदतेतरा' मिति आभियोगिकसुरमनस्तुष्टयुत्पादनहेतोरित्थमेव सृष्टिक्रमाच्च पौरस्त्येन त्रिसोपानकप्रतिरूपकेण आरोहति; आरुह्य च यत्रैव सिंहासनं तत्रैवोपागच्छति उपागत्य च पूर्वाभिमुखः सनिषण्णः - सम्यग् यथौचित्येनोपविष्टः, अथानुचरा राजादयो यथोपचेरुस्तथाऽऽह - 'तए ण' मित्यादि, ततस्तस्य भरतस्य राज्ञो द्वात्रिंशद्राजसहस्राणि यत्रैवाभिषेकमण्डपः- तत्रैवोपागच्छतीत्यादि व्यक्तं, नवरमभिषेकपीठं अनुप्रदक्षिणीकुर्वन्तः २ उत्तरत आरोहतां प्रदक्षिणा करणे For Private & Personal Use Only ३ वक्षस्कारे भरतस्य चक्रवर्त्ति त्वाभिषेकः सू. ६८ ॥२७२॥ jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy