SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ गरमर्यादया केवलकल्पं भरतं वर्ष तच्छ्रेयः खलु ममात्मानं महाराज्याभिषेकेणाभिषेचयितुं-अभिषेकं कारयितुं इति | कृत्वा-भरतं जितमिति विचार्य एवं सम्प्रेक्षते-राज्याभिषेकं विचारयति, अथैतद्विचारोत्तरकालीनकार्यमाह-संपेहित्ता' इत्यादि, व्यक्तं, सिंहासने निषद्य यच्चके तदाह-निसीइत्ता'इत्यादि, कण्ठ्यं, किमवादीदित्याह-'अभिजिएणमित्यादि, अभिजितं मया देवानुप्रिया! निजकबलवीर्यपुरुषकारपराक्रमेण क्षुद्रहिमवगिरिसागरमर्यादया केवलकल्प भरतं वर्ष तघ्यं देवानुप्रिया! मम महाराज्याभिषेक वितरत दत्त कुरुतेत्यर्थः, आवश्यकचूण्योंदौ तु भक्त्या सुर-10 नरास्तं महाराज्याभिषेकाय विज्ञपयामासुर्भरतश्च तदनुमेने, अस्ति हि अयं विधेयजनव्यवहारो यत्प्रभूणां समयसेवाविधौ ते स्वयमेवोपतिष्ठन्ते, सत्यप्येवं विधे कल्पे यद्भरतस्यात्रानुचरसुरादीनामभिषेकज्ञापनमुक्तं तद् गम्भीरार्थकत्वादस्मादृशां मन्दमेधसामनाकलनीयमिति । अथ यथा ते अङ्गीचक्रस्तथाह-तए ण'मित्यादि, ततस्ते षोडश देवसहस्राः यावत्शब्दात् द्वात्रिंशद्राजसहस्रादिपरिग्रहः यावदाजेश्वरतलवरादिसार्थवाहप्रभृतयः इति, भरतेन राज्ञा इत्युक्ताः सन्तो 'हतुत्ति इहैकदेशदर्शनमपि पूर्णतदधिकारसूत्रदर्शकं तेन हद्वतुद्दचित्तमाणंदिआ इत्यादिपदानि ज्ञेयानि, | करतलपरिगृहीतं दशनखं शिरस्यावर्त मस्तके अञ्जलिं कृत्वा भरतस्य राज्ञः एतं-अनन्तरोदितमर्थ सम्यग्-विनयेन प्रतिशृण्वन्ति-अङ्गीकुर्वन्ति, अथ 'जलालब्धात्मलामा कृषिर्जलेनैव वर्द्धत' इति ज्ञातात्तपसाऽऽप्तं राज्यं तपसैवामिनन्दतीति चेतसि चिन्तयन् भरतो यदुपचक्रमे तदाह-'तए णमित्यादि, प्राग्वत्, 'तए णं से भरहे'इत्यादि, ततः For Private Persones Only
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy