SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ प्राग्वत् , अप्येकके हिरण्यवर्ष वर्षन्ति-रूप्यस्याघटितसुवर्णस्य वा वर्ष वर्षन्ति, एवं सुवर्णवर्ष रत्नवर्ष वज्रवर्ष आभरणवर्ष वर्षन्ति, वज्राणि-हीरकाणि, पुनः प्रविशतो राज्ञो यदभूत्तदाह-'तए ण'मित्यादि, ततस्तस्य भरतस्य राज्ञो विनीता राजधानी मध्यंमध्येनानुप्रविशतः शृङ्गाटकादिषु यावच्छब्दादत्र त्रिकचतुष्कादिग्रहः महापथपर्यन्तेषु स्थानेषु |बहवोऽार्थिप्रभृतयस्ताभिरुदारादिविशेषणविशिष्टाभिर्वाग्भिरभिनन्दयन्तश्चाभिष्टुवन्तश्च एवमवादिषुरिति सम्बन्धः, तत्र शृङ्गाटकादिव्याख्या प्राग्वत् , अार्थिनो-द्रव्यार्थिनः कामार्थिनो-मनोज्ञशब्दरूपार्थिनः भोगार्थिनो-मनोज्ञगन्धरसस्पर्शार्थिनः लाभार्थिनो-भोजनमात्रादिप्रात्यर्थिनः ऋद्धि-गवादिसंपदं इच्छन्त्येषयन्ति वा ऋज्येषाः स्वार्थिकेकप्रत्ययविधानात् ऋत्येषिकाः किल्बिषिका:-परविदूषकत्वेन पापव्यवहारिणो भाण्डादयः कारोटिका:-कापालिकाः ताम्बूलस्थगीवाहका वा करं-राजदेयं द्रव्यं वहन्तीत्येवंशीला कारवाहिनस्त एव कारवाहिकाः कारबाधिता वा शांखिकादयः शब्दाः श्रीऋषभनिष्क्रमणमहाधिकारे व्याख्याता इति ततो व्याख्येया इति, अथ ते किमवादिषुरित्याह-'जय | जय नन्दा!' इत्यादि पदद्वयं प्राग्वत् , भद्रं ते-तुभ्यं भूयादिति शेषः, अजितं प्रतिरिपुं जय जितं-आज्ञावंशंवदं पालय, |जितमध्ये-आज्ञावशंवदमध्ये वस-तिष्ठ विनीतपरिजनपरिवृतोभूया इत्यर्थः, इन्द्र इव देवानां-वैमानिकानांमध्ये ऐश्वर्यभृत् , चन्द्र इव ताराणां-ज्योतिष्काणां चमर इवासुराणां दाक्षिणात्यानामित्यर्थः, एवं धरण इव नागानामित्यत्रापि ज्ञेयं, अन्यथा सामान्यतोऽसुराणामित्युक्ते बलीन्द्रस्य नागानामित्युक्ते च भूतानन्दस्योपमानत्वेनोपन्यासो युक्तिमान् स्यात्, Jan Education For Pres Personal use only O wainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy