________________
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः
॥२६६॥
वासनगर्याश्चक्रवर्तिनां पूर्वमेव वश्यत्वात् , उच्यते, निरुपसर्गेण वासस्थैर्यार्थमिति, यदाह-निरुवसग्गपञ्चयत्थं विणीअं ३ वक्षस्कारे रायहाणि मणसी करेमाणे २ अट्ठमभत्तं पगिण्हई' इति प्राकृतऋषभचरित्रे, अथाष्टमभक्तसमाध्यनन्तरं भरतो यच्चके भरतस्य तदाह-तए ण'मित्यादि, स्पष्टं, 'तहेव'त्ति पदसंग्रहश्चाभिषेक्यगजसजनमज्जनगृहमजनादिरूपः, अथ विनीताप्र
विनीतायां वेशवर्णके लाघवायातिदेशमाह-'तं चेव सब'मित्यादि, तदेव सर्व वाच्यं यथा हेट्ठा-अधस्तनसूत्रे विनीतां प्रत्याग-2
प्रवेशः स.
६७ मने वर्णनं तथाऽत्रापि प्रवेशे वाच्यमित्यर्थः, अत्र विशेषमाह-नवरं महानिधयो नव न प्रविशन्ति, तेषां मध्ये एकैकस्य विनीताप्रमाणत्वात् कुतस्तेषां तत्रावकाशः, चतस्रः सेना अपि न प्रविशन्ति, शेषः स एव गमः-पाठोर वक्तव्यः, कियत्पर्यन्तमित्याह--यावन्निर्घोषनादितेन युक्तो विनीताया राजधान्या मध्यंमध्येन-मध्यभागेन यत्रैव स्वकं गृहं यत्रैव च भवनवरावतंसकस्य-प्रधानतरगृहस्य प्रतिद्वार-बाह्यद्वारं तत्रैव गमनाय प्रधारितवान्-चिन्तित-12 वान् , प्रवृत्तवानित्यर्थः, प्रविशति चक्रिण्याभियोगिकसुरा यथा २ वासभवनं परिष्कुर्वन्ति तथाऽऽह-तए ण'मित्यादि, ततस्तस्य भरतस्य राज्ञो विनीतां राजधानी मध्यभागेन प्रविशतः अपि-बाढं एके केचन देवा विनीतां साभ्यन्तरबाहिरिकां आसिक्तसम्मार्जितोपलिप्तां कुर्वन्ति, अप्येकके तां मञ्चातिमश्चकलितां कुर्वन्ति, अप्येकके नानाविधरागवसनोच्छ्रितध्वजपताकामण्डितां अप्येकके लाइउल्लोइअमहितां कुर्वन्ति, अप्येकके गोशीर्षसरसरक्तचन्दनददरदर पञ्चाङ्गुलितलेत्यादिविशेषणां कुर्वन्ति, कियद्यावदित्याह-यावद् गन्धवर्तिभूतां कुर्वन्ति, अमीषां विशेषणानामर्थः
HOutininelibrary.org
Jain Education
For Privates Personal use Only