SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू. ५ प्रतिपादितं द्रष्टव्यं, बह्वयः पद्मलताः - पद्मिन्यः नागलता:- नागा द्रुमविशेषास्त एव लतास्तिर्यक्शाखाप्रसराभावात् | नागलताः, एवमशोकलताः चम्पकलताः 'वणलता' वणा-तरुविशेषा वासन्तिकालताः अतिमुक्तलताः कुन्दलताः | श्यामलताः, कथंभूता एता इत्याह- 'नित्यं' सर्वकालं षट्स्वपि ऋतुष्वित्यर्थः 'कुसुमिताः' कुसुमानि सञ्जातान्यास्विति | कुसुमिताः, तारकादिदर्शनादितप्रत्ययः, एवं नित्यं मुकुलिताः मुकुलानि नाम- कुड्मलानि कलिका इत्यर्थः, तथा नित्यं | लवकिताः लव एव लवकः स्वार्थे कः प्रत्ययः स सञ्जात आस्विति लवकिताः, सञ्जातपलवलवा इत्यर्थः, तथा नित्यं स्तबकिता :- सञ्जातपुष्पस्तबकाः, तथा नित्यं गुल्मिताः - सञ्जातगुल्मकाः, गुल्मकं च लतासमूहः, तथा नित्यं गुच्छिताः सञ्जातगुच्छाः, गुच्छश्च पत्रसमूहः, यद्यपि च पुष्पस्तबकयोरभेदो नामकोशेऽधीतस्तथाऽप्यन्त्र पुष्पपत्रकृतो विशेषो ज्ञेयः, नित्यं यमलिताः, यमलं नाम समानजातीययोर्लतयोर्युग्मं तत्सञ्जातमास्विति यम|लिताः, नित्यं युगलिताः, युगलं - सजातीयविजातीययोर्लतयोर्द्वन्द्वं, तथा नित्यं विनमिता नित्यं फलपुष्पादिभारेण विशेषेण नमिता - नीचैर्भावं प्रापिताः, तथा नित्यं प्रणमिताः - तेनैव नमयितुमारब्धाः, प्रशब्दस्यादिकर्मार्थत्वात्, अन्यथा पूर्वविशेषणादभेदः स्यात्, नित्यं सुविभक्तेत्यादि, सुविभक्तः सुविच्छित्तिकः प्रतिविशिष्टो मञ्जरीरूपो योऽवतंसकस्तद्धराः - तद्धारिण्यः औपपातिकादौ तु 'सुविभत्त पडि ( पिंड ) मंजरीवहिंसगधराओ' इति पाठस्तत्र ||सुविभक्ता - अतिविविक्ताः सुनिष्पन्नतया पिण्ड्यो- लुम्ब्यो मञ्जर्यश्च प्रतीताः, शेषं तथैव, एषः सर्वोऽपि कुसुम - For Private & Personal Use Only ww.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy