________________
ईष्टिपथे रचिता मङ्गल्यत्वात् अत एवालोके-बहिःप्रस्थानभाविनि शकुनानुकूल्यालोकने दर्शनीया-द्रष्टुं योग्या, ततो विशेषणसमासः,काऽसावित्याह-वातोद्भूता विजयसूचिका वैजयन्ती-पार्श्वतो लघुपताकाद्वययुक्तः पताकाविशेषः प्राग्वत् | उच्छ्रिता-उच्चा गगनतलमनुलिखन्ती अत्युच्चतया एते च कलशादयः पदार्थाः पुरतो यथानुपूर्व्या संप्रस्थिता इति, 'तएण'मित्यादि, ततो वैडूर्यमयो भिसंत'त्ति दीप्यमानो विमलो दण्डो यस्मिंस्तत्तथा, यावत्पदात् पलम्ब कोरण्टमल्लदामोवसोहिअं चन्दमंडलनिभं समूसि विमलं आयवत्तं पवर सिंहासणं च मणिरयणपायपीढं सपाउआजोगसमाउत्तं बहुकिंकरकम्मकरपुरिसपायत्तपरिक्खित्तं पुरओ अहाणुपुव्वीए संपडिअंति, अत्र व्याख्या-प्रलम्बेन कोरण्टाभिधानवृक्षस्य माल्यदाना-पुष्पमालयोपशोभितं चन्द्रमण्डलनिभं समुच्छ्रितं-ऊवीकृतं विमलमातपत्रं-छत्रं प्रवरं सिंहासनं च मणिरत्नमयं पादपीठ-पदासनं यस्मिंस्तत्तथा, स्वः स्वकीयो राजसत्क इत्यर्थः पादुकायोगः-पादरक्षणयुगं तेन समायुक्तं, बहवः किङ्कराः-प्रतिकर्म पृच्छाकारिणः कर्मकरा:-ततोऽन्यथाविधास्ते च ते पुरुषाश्चेति समासः पादातंपदातिसमूहस्तैः परिक्षिप्त-सर्वतो वेष्टितं तैधृतत्वादेव पुरतो यथानुपूर्व्या संप्रस्थितं; 'तए ण'मित्यादि, ततः सप्त एकेन्द्रियरत्नानि पृथिवीपरिणामरूपाणि पुरतः संप्रस्थितानि, तद्यथा-चक्ररत्नादीनि प्रागभिहितस्वरूपाणि, चक्ररत्नस्य च एकेन्द्रियरत्नाखण्डसूत्रपाठादेवात्र भणनं, तस्य मार्गदर्शकत्वेन सर्वतः पुरः संचरणीयत्वाद् , अत्र च गत्यानन्तर्यस्य वक्तुमुपक्रान्तत्वादिति, 'तयणंतरं च णं णव महाणिहिओ पुरओ' इत्यादि, ततो नव महानिधयोऽग्रतः प्रस्थिताः पाता
Jain Education
a
l
For Private Personal Use Only