SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ त्सहते तथाssह-'तए ण' मित्यादि, इदमपि प्रायो व्यक्तं, नवरं गङ्गाया महानद्याः पौरस्त्यं निष्कुटमित्युक्ते उदीचीनमपि स्यादिति द्वितीयमित्युक्तं, अवशिष्टे न अस्यैव प्राप्तावसरत्वात्, गङ्गायाः पश्चिमतो वहन्त्याः सागराभ्यां प्राध्यापाच्याभ्यां गिरिणा - वैताढ्येनोत्तरवर्त्तिना कृता या मर्यादा - क्षेत्रविभागस्तया सह वर्त्तते यत्तत्तथा, अथ सुषेणो वच्चक्रे तदाइ -- 'तए ण' मित्यादि, ततः - स्वाम्माज्ञध्यनन्तरं सुषेणस्तं निष्कुटं साधयतीत्यादि, तदेव पूर्ववर्णितं - दाक्षिणात्य - सिन्धुनिष्कुटवर्णितं भणितव्यम्, कियत्पर्यन्तमित्याह -- यावन्निष्कुटं साधयित्वा तामाज्ञटिकां प्रत्यर्पयति, प्रतिक्सृिष्टो याववू भोगभोगान् भुञ्जानो विहरति ॥ अथ साधिताखण्डखण्डे भरते सति यच्चक्रमुपचक्रमे तदाह'तप प'मित्यादि, ततो- मङ्गादक्षिणनिष्कुट विजयानन्तरं तद् दिव्यं चक्ररनं अन्यदा कदाचिदायुधगृहात् प्रतिनिष्क्रामति, विशेषणैकदेशा जत्राशेषविशेषणस्मारणार्थ तेनान्तरिक्षप्रतिपचं यक्षसहस्रसंपरिवृत्तं दिव्यत्रुटितसन्निनादेनापूर काम्बरतलं विजयस्कन्धावारनिषेशं मध्यंमध्येन - विजयस्कन्धावारस्य मध्यभागेन निर्गच्छति, दक्षिणपश्चिमां दिर्शिनैर्ऋती विदिशं प्रति विनीतां राजधानी रूक्षीकृत्याभिमुखं प्रयातं चाप्यभवत्, अयं भाव:- खण्डप्रपात गुहासन्नस्कन्धावारनिवेशाद् विनीतां जिगमिपोर्नैर्ऋत्यभिमुखगमनं लाघवायेति भावः, अथाभिविनीतं प्रस्थिते चक्रे भरतः किं चक्रे इत्याह-- 'तर पं'मित्यादि, ततः- चक्रप्रस्थानादनन्तरं स भरतो राजा तद्दिव्यं चक्ररत्नमित्यादि यावत्पश्यति दङ्का च दृष्टदुष्टादिविशेषणः कौम्बिकपुरुषान् शब्दयति शब्दयित्वा चैवमवादीत् क्षिप्रमेव भो देवानुप्रिया ! आभिषेक्यं Jain Education Intemato For Private & Personal Use Only ww.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy