________________
Jain Education In
मुत्पत्तिरभिधीयते, यथा योधत्वं कातरत्वं च जायते तथाऽत्राभिधीयते इत्यर्थः, तथा आवरणानां च - खेट कानां सन्नाहानां वा प्रहरणानां - अस्यादीनां च सर्वा च युद्धनीतिः - व्यूहरचनादिलक्षणा सर्वापि च दण्डेनोपलक्षि| ता नीतिर्दण्डनीतिः - सामादिश्चतुर्विधा माणवकनाम्नि निधावभिधीयते, ततः प्रवर्त्तत इति भावः ८ ॥ अथ नवमः - 'ट्टविही णाडग विही' इत्यादि, सर्वोऽपि नृत्यविधिः- नाट्यकरणप्रकारः सर्वोऽपि च नाटकविधिः- अभिनेयप्रबन्धप्रपञ्चनप्रकारः तथा चतुर्विधस्य काव्यस्य ग्रन्थस्य - धर्म्मा १२ काम ३ मोक्ष ४ लक्षणपुरुषार्थ निबद्धस्याथवा संस्कृत १प्राकृता २ पभ्रंश ३ संकीर्ण ४ भाषानिबद्धस्य गद्य २ पद्य २ गेय ३ चौर्ण ४ पदबद्धस्य वा उत्पत्तिःनिष्पत्तिस्तद्विधिः, तत्राद्यं काव्यचतुष्कं प्रतीतं, द्वितीयचतुष्के संस्कृतप्राकृते सुबोधे अपभ्रंशः- तत्तद्देशेषु शुद्धं भाषितं सङ्कीर्ण भाषा - शौरसेन्यादिः, तृतीयचतुष्के गद्यं -अच्छन्दोबद्धं शस्त्रपरिज्ञाध्ययनवत् पद्यं - छन्दोबद्धं विमुक्तयध्ययनवत् गेयं गन्धर्व्या रीत्या बद्धं गानयोग्यं चौर्ण - बाहुलकविधिबहुलं गमपाठबहुलं निपातबहुलं निपाताव्यय बहुलं | ब्रह्मचर्याध्ययनपदवत्, अत्र चेतरयोर्गद्यपद्यान्तर्भावेऽपि यत्पृथगुपादानं तद्गानधर्माधेयधर्मविशिष्टतया विशेषणविव| क्षणार्थं, शंखे महानिधौ, तथा त्रुटिताङ्गानां च-तूर्याङ्गाणां सर्वेषां वा तथातथावाद्यभेदभिन्नानामुत्पत्तिः शङ्खे महानिधाविति ९ ॥ अथ नवानामपि निधीनां साधारणं स्वरूपमाह - 'चकटु' इत्यादि, प्रत्येकमष्टसु चक्रेषु प्रतिष्ठानं - अवस्थानं येषां ते तथा, यत्र यत्र वाह्यन्ते तत्र तत्राष्टचक्रप्रतिष्ठिता एव वहन्ति, प्राकृतत्वादष्टशब्दस्य परनिपातः, अष्टौ योज
For Private & Personal Use Only
www.jainelibrary.org