________________
Jain Education Inte
| रिति सूत्रे योगविभागेन व्याख्याने तीर्थकरादिशब्दवत् साधुत्वं ज्ञेयं, यद्वा 'देवनागसुवण्णकिंनरगणस्सम्भूअभावच्चिए' इत्यादिवदार्षत्वादनुस्वारे लोकोपचयकराः - वृत्तिकल्पककल्पपुस्तकप्रतिपादनेन लोकानां पुष्टिकारकाः लोक| विख्यातयशस्का इति, अथ नामतस्तानुपदर्शयति - तद्यथेत्युपदर्शने नैसर्पस्य देवविशेषस्यायं नैसर्पः, एवमग्रेऽपि भाव्यं, अथ यत्र निधौ यदाख्यायते तदाह - 'णेसप्प 'मित्यादि, नैसर्पनामनि निधौ निवेशा:- स्थापनानि स्थापनवि|धयो ग्रामादीनां गृहपर्यन्तानां व्याख्यायन्ते तत्र ग्रामो - वृत्त्यावृतः आकरो - यत्र लवणाद्युत्पद्यते नगरं - राजधानी पत्तनं - रलयोनिर्द्रोणमुखं - जलस्थलनिर्गमप्रवेशं मडम्बं - अर्द्धतृतीयगव्यूतान्तर्ग्रामरहितं स्कन्धावारः कटकं आपणोहट्टः, गृहं भवनं उपलक्षणात् खेटकर्बटादिग्रहः १ ॥ अथ द्वितीयनिधानवक्तव्यतामाह - 'गणिअस्स' इत्यादि, गणितस्य - सङ्ख्याप्रधानतया व्यवहर्त्तव्यस्य दीनारादेः नालिकेरादेर्वा चशब्दात् परिच्छेद्यधनस्य मौक्तिकादेरुत्पत्ति| प्रकारः तथा मानं - सेतिकादि तद्विषयं यत्तदपि मानमेव धान्यादि मेयमिति भावः, तथा उन्मानं - तुलाकर्षादि तद्विषयं | यत्तदप्युन्मानं खण्डगुडादि धरिमजातीयं धनमित्यर्थः, ततः समाहारद्वन्द्वस्तस्य च यत्प्रमाणं लिङ्गविपरिणामेन तत्पा| ण्डुके भणितमिति सम्बन्धः, धान्यस्य - शाल्यादेर्बीजानां च-वापयोग्यधान्यानामुत्पत्तिः पाण्डुके निधौ भणिता २ ॥ अथ तृतीयनिधिस्वरूपं निरूप्यते - 'सच्चा आभरण' इत्यादि, सर्व आभरणविधिर्यः पुरुषाणां यश्च महिलानां तथाs| श्वानां हस्तिनां च स यथौचित्येन पिङ्गलकनिधौ भणितः लिङ्गविपरिणामः प्राकृतशैलीभवः ३ ॥ अथ चतुर्थनिधि:
For Private & Personal Use Only
ww.jainelibrary.org