________________
त्तथा, अन्यत्सर्व प्राग्वत् सूत्रतो व्याख्यातश्च गङ्गागमेन परिभावनीयं, अथ नाट्यमालदेवस्य वशीकरणप्रयोजनमाह६. 'तए णमित्यादि, ततो-गङ्गानिष्कुटसाधनानन्तरं स भरतः सुषेणं सेनापतिरत्नं शब्दयति शब्दयित्वा चैवमवादीदि
त्यादिक अत्र गुहाकपाटोद्घाटनाज्ञापनादिकं एकोनपञ्चाशन्मण्डलालेखनान्तं सर्व तमिम्रागुहायामिव ज्ञेयं, अत्र यो| विशेषस्तन्निरूपणार्थमाह-तीसे ण'मित्यादि, तस्याः-खण्डप्रपातगुहायाः बहुमध्यदेशभागे यावत्पदात् 'एत्थ ण'मिति पदमात्रमवसेयं, उन्मग्नजलानिमग्नजले नाम्ना द्वे महानद्यौ स्तः, तथैव-तमिस्रागुहागतोन्मग्नानिमग्नानदीगमेन ज्ञातव्ये, नवरं खण्डप्रपातगुहायाः पाश्चात्यकटकात् प्रन्यूढे सत्यौ पूर्वेण गङ्गां महानदी समामुत:-प्रविशतः, शेषं विस्तारायामोद्वेधान्तरादिकं तथैव-तमिस्रागतनदीद्वयप्रकारेणावसेयं, नवरं गङ्गायाः पाश्चात्यकूले संक्रमवक्तव्यता. | सेतुकरणाज्ञादानतद्विधानोत्तरणादिकं ज्ञेयं, तथैव-प्राग्वद् ज्ञेयमिति, अथैतस्मिन्नवरे दक्षिणतो यज्जातं तदाह'तए णमित्यादि,प्राग्व्याख्यातार्थ, अथोद्घाटितयोर्गुहादक्षिणद्वारकपाटयोः प्रयोजनमाह-'तए ण'मित्यादि, ततःकपाटोद्घाटनानन्तरं स भरतो राज्ञा चक्ररत्नदेशितमार्गः यावत्करणात् 'अणेगरायवरसहस्साणुआयमग्गे महया
उक्किट्ठसीहणायबोलकलकलरवेणं पक्खुभिअमहासमुहरवभूअंपिव करेमाणे' इति पदानां परिग्रहः, खण्डप्रपातगुहातो 8 18| दक्षिणद्वारेण निरेति शशीव मेहान्धकारनिवहात्, प्राग्व्याख्यातं, ननु चक्रिणां तमिस्रया प्रवेशः खण्डप्रपातया 8
निर्गमः किंकारणिकः, खण्डप्रपातया प्रवेशस्तमिस्रया निर्गमोऽस्तु, प्रवेशनिर्गमरूपस्य कार्यस्योभयत्र तुल्यत्वात् , उच्यते,
For Private Personel Use Only
W
Elon
ww.jainelibrary.org