________________
पदद्वयस्य कर्मधारयः, 'सिङ्गारागारे'त्यत्र यावत्पदात् सिङ्गारागारचारुवेसं संगयगयहसिअभणिअचिठिअविलाससल-21 लिअलावनिउण इति संग्रहः, शृङ्गारस्य-प्रथमरसत्यागारं-गृहमिव चारुर्वेषो यस्याः सा तथा तां सङ्गता-उचिता गतहसितभणितचेष्टितविलासा यस्याः सा तथा, तत्र गतं-गमनं हसितं-स्मितं भणितं-वाणी चेष्टितं च-अपुरुषचेष्टा विलासो-नेत्रचेष्टा तथा सह ललितेन-प्रसन्नतया ये संलापा:-परस्परभाषणलक्षणास्तेषु निपुणा या सा तथा, तथा युक्ताः|| सङ्गताः ये उपचारा-लोकव्यवहारास्तेषु कुशला या सा तथा, ततः पदत्रयकर्मधारयः तां, अमरवधूनां सुरूप-सौन्दर्य |
रूपेणानुहरन्ती-अनुकुर्वती भद्रे-कल्याणकारिणि यौवने वर्तमानां, शेषं तु प्राग्योजितार्थ, 'गिण्हित्ता इत्यादि, गृहीत्वा |तयोत्कृष्टया त्वरितया यावदुखतया विद्याधरगत्या यत्रैव भरतो राजा तत्रैवोपागच्छतः, उपागत्य चान्तरिक्षप्रतिपन्नौ ॥ सकिंकिणीकानि यावत्पदात् पञ्चवर्णानि वस्त्राणि प्रवरपरिहितौ इत्यादि जयेन विजयेन वर्द्धयतः वर्द्धयित्वा चैवम-15
वादिषाता-अभिजितं देवानुप्रियः यावत्शब्दात् सर्व मागधगमवद्वाच्यं, नवरमुत्तरेणं चुलहिमवंतमेराए इति 'अम्हे राणं देवाणुप्पिआणं विसयवासिणो'त्ति आवां देवानुप्रियाणां आज्ञप्तिकिंकरावितिकृत्वा तत्प्रतीच्छन्तु देवानुप्रिया ! 19 अस्माकमिदं यावच्छब्दादेतद्रूपं प्रीतिदानमितिकृत्वा विनमिः स्त्रीरत्न नमिश्च रत्नानि समर्पयति । अथ भरतो यदका
पत्तिदाह-'तए ण'मित्यादि, ततः स भरतो राजा यावच्छब्दात् प्रीतिदानग्रहणसत्कारणादि ग्राह्यं, प्रतिविसर्जयति । प्रतिविसृज्य च पौषधशालातः प्रतिनिष्कामति प्रतिनिष्काम्य च मजनगृहमनुप्रविशति अनुप्रविश्य च स्नानविधिः
Jain Education
For Private
Persone Use Only
VIw.ininelibrary.org