SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥२५३॥ Jain Education Inter | स्पर्शामिति भावः, त्रिषु स्थानेषु - मध्योदरतनुलक्षणेषु तनुकां- कृशां तनुमध्या - तनूदरी तन्वङ्गीतिकविप्रसिद्धेः, ननु सामु| द्रिकेऽन्यान्यपि दन्तत्वगादीनि तनूनि कथितानि तथा च सति कथं तनूनां त्रिसङ्ख्याङ्कता युज्यते इति १, उच्यते, | विचित्रत्वात् कविरुचेस्त्रिकसङ्ख्याविशिष्टानुप्रास भासुरं बन्धं निबनता ग्रन्थकारेण स्त्रीपुंससाधारणानि यानि त्रिकरूपाणि लक्षणानि तानि तथैव निबद्धानि यानि तु त्र्यधिकसङ्ख्याकानि तेभ्योऽत्र रत्नप्रस्तावात् केवलं स्त्रीजात्युचि - | तानि लक्षणानि समुच्चित्यानुप्रासाभङ्गार्थं त्रिकरूपत्वेन निबद्धानि तेन नेहापरग्रन्थविरोधः, अत एव दन्तत्वगादीनि तनून्यपि तस्या अत्र न विवक्षितानीति, एवमुत्तरत्रापि भाव्यं, त्रिषु-हगन्ताधरयोनिलक्षणेषु स्थानेषु ताम्रां - रक्तां, | दृगन्तरक्तत्वं हि स्त्रीणां दृक्चुम्बने पुरुषस्यातीव मनोहरं भवतीति त्रयों वलयो - मध्यवर्तिरेखारूपा यस्याः सा तथा तां, अत्र द्वितीयैकवचनलोपः प्राकृतत्वात्, त्रिवलीकत्वं स्त्रीणामतिप्रशस्यं पुंसां तु तथाविधं न, यदाह - " शस्त्रान्तं | स्त्रीभोगिनमाचार्य बहुसुतं यथासङ्ख्यम् । एकद्वित्रिचतुर्भिर्वलिभिर्विद्यान्नृपं त्ववलिम् ॥ १ ॥” तथा त्रिषु - स्तनजघनयोनिलक्षणेषु उन्नतां त्रिषु - नाभिसत्त्वस्वररूपेषु गम्भीरां त्रिषु - रोमराजीचूचुककनीनिका रूपेष्ववयवेषु कृष्णां त्रिषुदन्तस्मितचक्षुर्लक्षणेषु श्वेतां त्रिषु - वेणीबाहुलतालोचनेषु आयतां - प्रलम्बां त्रिषु श्रोणिचक्रजघनस्थली नितम्बबिम्बेषु | विस्तीर्णां समशरीरां समचतुरस्रसंस्थानत्वात्, भरते वर्षे सर्वमहिलाप्रधानां, सुन्दरं स्तनजघनवरकरचलननयनं यस्याः | सा तथा तां शिरसिजा : - केशाः दशना - दन्तास्तैर्जनहृदयरमणी - द्रष्टृलोकचित्तक्रीडाहेतुकं अत एव मनोहरीं पश्चात् For Private & Personal Use Only ३ वक्षस्कारे नमिविनमिसाधनं स्त्रीरत्नाप्तिः सू. ६४ ॥२५३॥ jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy