________________
Jain Education
लेन -रत्नमयदामसमूहेन, अत्र स्थलजाता मणयो जलजातानि रसानीति रत्नमण्योर्भेदः, एकैकेन सर्वरत्नमय पद्मात्मकेन दामसमूहेन, सर्वतः समन्तादिति प्राग्वत्, संपरिक्षिता, एतानि च दामरूपाणि हेमजाकादीनि जालानि लम्बमानानि वेदितव्यानि तथा च आह- 'ते णं जाला' इति, अत्र पुंस्स्वनिर्देश: प्राकृतत्वात्तेन तानि जालानि सपनीयम् - आरके सुवर्ण तन्मयो लम्बूसगो-दाम्नामग्रिमभागे मण्डनविशेषो येषां तानि तथा, पार्श्वतः सामस्त्येन सुवर्णस्य प्रत्तरकेण - पत्रेण मण्डितामि, अन्तरा अन्तरा लम्बमानहेमपत्रकालङ्कृतानि, तथा नानारूपाणां - जातिभेदेनानेकप्रकाराणां मणीनां रत्नानां च ये विचित्रवर्णा हारा-अष्टादशसरिका अर्द्धहारा-नवसरिकास्तैरुपशोभितः समुदायो येषां तानि तथा, ईषत् - ममा अन्योऽन्यं - परस्परमसम्प्राप्तानि - असंलग्नानि पूर्वापरदक्षिणोत्तरागतैर्वातैर्मन्दायं मन्दायमिति मन्दं मन्दं एज्यमानानि - कम्प्यमानानि “मृशाभीक्ष्ण्याविच्छेदे द्विः प्राक्तमबादे” ( श्रीसि० ७-४-७३ ) रित्यविच्छेदे द्विर्वचनं क्या पचति पचतीत्यत्र, एवमुत्तरत्रापि, ईषत्कम्पनवशात् प्रकर्षत इतस्ततो मनाचलनेन लम्बमानानि २, ततः परस्परं | सम्पर्कवशतः 'पझंझमाणा पझंझमाणा' इति शब्दायमानानि २, उदारेण-स्कारेण शब्देनेति योगः, स च स्फारशब्दो मनःप्रतिकूलोऽपि भवति तत आह- ' मनोज्ञेन' मनोऽनुकूलेन, तच्च मनोऽनुकूलत्वं लेशतोऽपि स्वादत आह'मनोहरेण' मनांसि श्रोतॄणां हरति - आत्मवशं नयतीति मनोहरो, लिहादेराकृतिगणत्वादच्प्रत्ययः तेन तदपि मनोहरत्वं कुत इत्याह- 'कर्णमनोनिर्वृतिकरेण' 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रावो दर्शन मिति वचनात् हेतौ
For Private & Personal Use Only
www.jainelibrary.org