SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥२५२॥ Jain Education Inter ज्ञानं तत्सौधर्मेशानदेवीनां मनः प्रविचारिदेवानां कामानुषक्तमनोज्ञानमिव दिव्यानुभावादवगन्तव्यं, अन्यथा तासा| मपि स्वविमानचूलिकाध्वजादिमात्र विषयकावधिमतीनां तद्भिरंसाज्ञानासम्भवेन सुरतानुकूल चेष्टोन्मुखत्वं न सम्भवेदिति, एतादृशावन्योऽन्यस्यान्तिकं प्रादुर्भवतः, प्रादुर्भूय च एवमवादिषातां किमवादिषातामित्याह – 'उप्पण्णे खलु इत्यादि, | उत्पन्नः खलुः - अवधारणे भो देवानुप्रिया ! जम्बूद्वीपे द्वीपे भरतवर्षे भरतनामा राजा चतुरन्तचक्रवर्त्ती तस्माज्जी| तमेतत्-कल्प एषोऽतीतवर्त्तमानानागतानां विद्याधरराज्ञां चक्रवर्त्तिनामुपस्थानिकं प्राभृतं कर्तुं तद् गच्छामो देवानु| प्रिया ! वयमपि भरतस्य राज्ञ उपस्थानिकं कुर्म्म 'इति कट्टु इत्यादि इति कृत्वा - इति अन्योऽन्यं भणित्वा विनमिरु - | तरश्रेण्यधिपतिः सुभद्रां नाम्ना स्त्रीरत्नं नमिश्च दक्षिणश्रेण्यधिपती रत्नानि कटकानि त्रुटिकानि च गृह्णातीत्यन्वयः, | अथ कीदृशः सन् विनमिः किं कृत्वा सुभद्रां कन्यारत्नं गृह्णातीत्याह - दिव्यया मत्यां नोदितमतिः सन् चक्रवर्त्तिनं ज्ञात्वा, अत्रानन्तरोक्तसूत्रतश्चक्रवर्त्तित्वे लब्धेऽपि यत् णाऊण चक्कवट्टिमित्याद्युक्तं तत् सुभद्रा स्त्रीरत्नमस्यैवोपयोगीति योग्यताख्यापनार्थं, किंलक्षणां सुभद्रामित्याह - 'मानोन्मानप्रमाणयुक्तां, तत्र मानं - जलद्रोणप्रमाणता उन्मानं| तुलारोपितस्यार्द्धभार प्रमाणता यश्च स्वमुखानि नव समुच्छ्रितः स प्रमाणोपेतः स्यात्, अयमर्थः - जलपूर्णायां पुरुषप्र - | माणादीपदतिरिक्तायां महत्यां कुण्डिकायां प्रवेशितो यः पुरुषः सारपुद्गलोपचितो जलस्य द्रोणं त्रिटङ्कसौवर्णिकगणनापेक्षया द्वात्रिंशत्सेरप्रमाणं निष्काशयति जलद्रोणोना वा तां पूरयति स मानोपेतः, तथा सारपुद्गलोपचितत्वादेव For Private & Personal Use Only ३ वक्षस्कारे नमिविनमिसाधनं स्त्रीरत्ताप्तिः सू. ६४ ॥२५२॥ www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy