SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ | अस्या तृतीयायाः समाया:-तृतीयारकस्य पश्चिमभागे तृतीये भागे इत्यर्थः, अहमस्मि चक्रवर्ती भरत इति नामधेयेन-11 नाना ॥१॥ अहमस्मि प्रथमराजा-प्रधानराजा, प्रथमशब्दस्य प्रधानपर्यायत्वाद्यथा 'पढमे चंदजोगे' इत्यादौ, एतद्-॥ व्याख्यानेन ऋषभे प्रथमराजत्वं नागमेन सह विरुध्यते, अहं भरताधिपः-भरतक्षेत्राधिपः नरवराः-सामन्तादयस्तेपामिन्द्रः नास्ति मम प्रतिशत्रु:-प्रतिपक्षः जितं मया भारतं वर्षमिति कृत्वा नामकं 'आउडेइ'त्ति लिखति, अस्य, सूत्रस्य निगमार्थकत्वान्न पौनरुक्त्यं, अथ कृतकृत्यो यद् व्यवस्यति तदाह-णामगं आउडिता'इत्यादि, नामकं लिखित्वा रथं परावयति परावलं च यत्रैव विजयस्कन्धावारनिवेशो यत्रैव च बाह्योपस्थानशाला तत्रैवोपागच्छति उपागत्य च अत्र यावत्पदात् तुरगानिगृह्णाति रथं स्थापयति ततः प्रत्यवरोहति मजनगृहं प्रविशति नाति ततः प्रतिनिष्कामति भुते बाह्योपस्थानशालायां सिंहासने उपविशति श्रेणीप्रश्रेणीः शब्दापयति क्षुल्लहिमवद्भिरिकुमारदेवस्याष्टाहिकाकरणं सन्दिशति ताश्च कुर्वन्ति आज्ञां च प्रत्यर्पयन्तीति ग्राह्यं, ततस्तदिव्यं चक्ररत्नं क्षुल्ल हिमवगिरिकुमारस्य देवस्याष्टाहिकायां महामहिमायां निवृत्तायां सत्यामायुधगृहशालातः प्रतिनिष्कामति प्रतिनिष्क्रम्य च यावच्छ-18 ब्दादन्तरिक्षप्रतिपन्नादिविशेषणग्रहः, दक्षिणां दिशमुद्दिश्य वैताब्यपर्वताभिमुखं प्रयातं चाप्यभवत्। तए णं से भरहे राया तं दिव्वं चक्करयणं जाव वेअद्धस्स पन्वयस्स उत्तरिल्ले णितंबे तेणेव उवागच्छइ २ चा वेअद्धस्स पव्वयस्स उत्तरिले णितंबे दुवालसजोयणायाम जाव पोसहसालं अणुपविसइ जाव णमिविणमीणं विजाहरराईणं अहमभत्तं पगिण्हइ २ चा For Private Personal Use Only W w .jainelibrary.org Jain Education intellial In
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy