________________
Jain Education Inten
तथा अहो इति आश्चर्ये देवानुप्रियाणां ऋद्धिर्युतिर्यशो बलं वीर्यं पुरुषकारः पराक्रमः एतेषां व्याख्यानं प्राग्वत्, ऋद्ध्यादीन्याश्चर्यकारीणि कुत इत्याह- दिव्या - सर्वोत्कृष्टा देवस्येव द्युतिः, एवं दिव्यो देवानुभावो देवानुभागो वा लब्धःप्राप्तः अभिसमन्वागतो देवपादैरित्यध्याहार्यं, परतः श्रुतेऽपि गुणातिशये आश्चर्योत्पत्तिः स्यात् दृष्टे तु सुतरामित्या| शयेनाह - तद् दृष्टा देवानुप्रियाणां ऋद्धिः-सम्पत्, चक्षुः प्रत्यक्षेणानुभूतेत्यर्थः, श्रवणतो दर्शनस्यातिसंवादकत्वात्, एवं चैवेति उक्तन्यायेन दृष्टा देवानुप्रियाणां द्युतिः, एवं यशोबलादिकमपि दृष्टमित्यादि वाच्यं यावदभिसमन्वागत इति पदं, यावत्पदसंग्रहस्तु 'इड्डी जसे बले वीरिए' इत्यादिकोऽनन्तरोक्त एव, तत्क्षमयामो देवानुप्रिया वयं, सानु - शयाशयत्वात् स्वबालचेष्टितं क्षमन्तां देवानुप्रियाः ! क्षन्तुमर्हन्ति - क्षमा कर्त्तुं योग्या भवन्ति देवानुप्रियाः महाशयत्वात्, अत्र प्राकृतत्वाद्वर्त्तमानार्थे पञ्चमी, 'णाइ'त्ति नैव आई इति निपातोऽवधारणे भूय एवंकरणतायै सम्पत्स्यामह इति शेषः, अत्र ताकारः प्राकृतशैलीभवः, इति कृत्वा प्राञ्जलिकृताः पादपतिता भरतं राजानं शरणमुपयान्ति, अथ प्रसादाभिमुखभरतकृत्यमाह -- 'तए णं से भरहे राया तेसिं आवाडचिलायाण' मित्यादि, ततः स भरतो राजा तेषामापातकिरातानामग्र्याणि वराणि रत्नानि प्रतीच्छति गृह्णाति प्रतीच्छ्य च तानापातकिरातानेवमवादीत्-गच्छत भो ! देवानुप्रियाः यूयं स्वस्थानमिति शेषः, मम बाहुच्छायया परिगृहीताः - स्वीकृताः मया शिरसि दत्तहस्ताः निर्भया निरुद्विग्नाः- उद्वेगरहिताः सुखंसुखेन परिवसत, अत्र 'छायायां हो कान्तौ वा' इत्यनेन ( श्री सिद्ध है० अ०८ पा०१सू०२४९)
For Private & Personal Use Only
w.jainelibrary.org