________________
श्रीजम्बूद्वीपशान्तिचन्द्री -
या वृत्तिः
॥२४७॥
Jain Education Inter
प्राभृतीकुर्वन्तीत्यर्थः अथ यदुक्तं 'एवं व्यासि'त्ति तत्र किमवादिषुरित्याह- 'वसुहर' इत्यादि, हे वसुधर ! - द्रव्यधर षट्खण्डवर्त्तिद्रव्यपते इतियावत्, अथवा तेजोधर गुणधर - गुणवान् जयधर - विद्वेषिभिरधर्षणीय ! ही:-लज्जा श्रीः| लक्ष्मीर्धृतिः - सन्तोषः कीर्त्तिः - वर्णवादः एतेषा धारक नरेन्द्रलक्षणसहस्राणां - अनेक लक्षणानां धारक णो- अस्माकं | राज्यमिदं चिरं धारय - पालय इत्यर्थः, अस्मद्देशाधिपतिर्भव चिरकालं यावदिति प्रथमगाथार्थ: । 'tras गवई ? इत्यादि, हे हयपते ! गजपते! हे नरपते ! नवनिधिपते ! हे भरतवर्षप्रथमपते ! द्वात्रिंशजनपदसहस्राणां - देशसहस्राणां ये राजानस्तेषां स्वामिन्! चिरं जीव २ इति द्वितीयगाथार्थः । 'पढमण सरीसर ईसर' इत्यादि, हे प्रथमनरेश्वर ! हे ऐश्वर्यधर ! हे महिलिकासहस्राणां - चतुःषष्टिस्त्रीसहस्राणां हृदयेश्वर - प्राणवल्लभ देवशतसहस्राणां - रत्नाधिष्ठातृमागधतीर्थाधिपादिदेवलक्षाणामीश्वर ! चतुर्द्दशरलेश्वर ! यशस्विन् इति तृतीयगाथार्थः ॥ तथा 'सागर' इत्यादि, सागरः- पूर्वापरदक्षिणाख्यः समुद्रः गिरि:- क्षुद्र हिमाचलस्तयोर्मर्यादा - अवधिर्यत्र तत्तथा, उक्तदित्रये समुद्राव - धिकमुत्तरतो हिमाचलावधिक, उत्तरापाचीनं- उत्तरार्द्धदक्षिणार्द्ध भरतं परिपूर्ण भरतमित्यर्थः, त्वयाऽभिजितं यदत्र भरतस्य हिमवद्भिरिपर्यन्तता व्याख्याता तदवश्यं साधयिष्यमाणत्वेन 'भाविनि भूतवदुपचार' इति न्यायात्, अन्यथा | नवनिधिपते ! चतुर्दशरलेश्वर इत्यादिविशेषणानामप्यनुपपत्तिः, नवनिधीनां तथा सम्पूणचतुर्दशरलानामथैव सम्पत्स्यमानत्वात्, ता - तस्माद् वयं देवानुप्रियस्य विषये परिवसामः, युष्माकं प्रजारूपाः स्म इत्यर्थः, इति चतुर्थगाथार्थः ।
For Private & Personal Use Only
||३ वक्षस्कारे आपातकि रातसाधनं सू. ६१
॥२४७॥
www.jainelibrary.org