________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥२४४॥
Jain Education Int
| परिपाकदशा प्रापितानां पूतानां - निर्बुसीकृतानां सर्वधान्यानामनेकानि 'कुम्भसहस्राणि' कुम्भानां राशिरूपमानविशेणां सहस्राणि उपस्थापयति- उपढौकयति प्राभृतीकरोतीत्यर्थः, कुम्भमानं त्वेवमनुयोगद्वारसूत्रोक्तं - "दो असईओ पसई दो पसईओ सेइआ चत्तारि सेइआओ कुडओ चत्तारि कुडया पत्थो चत्तारि पत्थया आढयं चत्तारि आढया | दोणो सट्ठि आढयाई जहण्णए कुंभे असीति आढयाई मज्झिमए कुंभे आढयसयं उक्कोसए कुंभे"त्ति, अत्र व्याख्या| अत्राशतिः - अवाङ्मुखहस्ततलरूपा मुष्टिरित्यर्थः तत्प्रमाणं धान्यमप्यशतिरेवोच्यते, तद्वत्प्रसृतिः - नावाकारतया व्यवस्थापिता प्राञ्जलकरतलरूपोच्यते, द्वे प्रसृती सेतिका - मगधदेशप्रसिद्धो मानविशेषो, न तु इह प्रसिद्धा, तस्याः प्रस्थचतुर्गुणत्वात्, चतस्रः सेतिकाः कुडवः - पल्लिकासमानो माप्यविशेषः, चत्वारः कुडवाः प्रस्थो माणकसमानं माध्यं, चत्वारः प्रस्थाः आढकः - - सेतिकाप्रमाणः चत्वार आढका द्रोणः - चतुःसेतिकाप्रमाणः षष्ट्या आढकैः पञ्चदशभिर्द्रोण| रित्यर्थः जघन्यः अशीत्या आढकैविंशत्या द्रोणैरित्यर्थः मध्यमः कुम्भः तथा आढकानां शतेन पञ्चविंशत्या द्रोणैरित्यर्थः उत्कृष्टः कुम्भ इति, अत्र च 'सबधण्णाणं' ति सूत्रमुपलक्षणपरं तेनान्यदपि यत्सैन्यस्य भोजनोपयोगि तत् सर्वमुपन| यति, एवं सति तत्र भरतः कथं कियत्कालं च स्थितवानित्याह-- 'तए ण' मित्यादि, ततो-गृहपतिरत्नकृतधान्योपस्थापनानन्तरं स भरतः चर्मरत्नारूढश्छत्ररलेन समवच्छन्नः - आच्छादितो मणिरत्नकृतोद्योतः समुद्रकसम्पुटं भूत इव - प्राप्त इव सुखसुखेनेत्यर्थः सप्तरात्रं - सप्त दिनानि यावत्परिवसति, एतदेव व्यक्तीकुर्वन्नाह - 'णवि से खुहा ण'
For Private & Personal Use Only
३ वृक्षूस्कारे चर्मरले धान्याद्युत्पादनं सू. ६०
॥२४४॥
w.jainelibrary.org