________________
।
शरलादिषु विभक्तं, तेन तदेकदेशभूतमिदं छत्ररत्नं विमानवासेऽपि-देवत्वेऽपि दुर्लभतरं, तत्र चक्रवर्तित्वस्थासम्भवात्, 'वग्घारित्ति प्रलम्बितो लम्बतयाऽवलम्बितो माल्यदाम्नां-पुष्पमालानां कलापः-समूहो यत्र तत्तथा, समन्ततः पुष्पमालावेष्टितमिति भावः, शारदानि-शरत्कालभावीनि धवलान्यभ्राणि-वाईलानि शारदश्च रजनिकर:चन्द्रः तद्वत्प्रकाशो-भास्वरत्वजनित उद्द्योतो यस्य तत्तथा, दिव्यं-सहस्रदेवाधिष्ठितं शेषपदयोजना प्राक् कृतैवास्ति, अथ प्रकतम-'तए णमित्यादि, ततस्तदिव्यं छत्ररत्नं भरतेन राजा परामृष्टं-स्पृष्टं सक्षिप्रमेव चर्मरत्नवत् द्वादशयोजनानि साधिकानि तिर्यक् प्रविस्तृणाति, साधिकत्वं चात्र परिपूर्णचर्मरत्नपिधायकत्वेन, अन्यथा किरातकृतवृापद्रवः स्वसैन्यस्य दुर्वारः स्यादिति ॥ अथ छत्ररत्नप्रविस्तरणानन्तरं यच्चके तदाह
तए णं से भरहे राया छत्तरयणं खंधावारस्सुवरिं ठवेइ २ त्ता मणिरयणं परामुसइ वेढो जाव छत्तरयणस्स वत्थिभागंसि ठवेइ, तस्स य अणतिवरं चारुरूवं सिलणिहिअत्थमंतमेत्तसालिजवगोहूममुग्गमासतिलकुलत्थसहिगनिप्फावचणगकोदवकोत्युंभरिकंगुबरगरालगअणेगधण्णावरणहारिअगअल्लगमूलगहलिहलाअतउसतुंबकालिंगकविट्ठअंबअंबिलिअसव्वणि फायए सुकुसले गाहावइरयणेत्ति सव्वजणवीसुअगुणे । तए णं से गाहावइरयणे भरहस्स रण्णो तदिवसप्पण्णणिप्फाइअपूइआणं सबधण्णाणं अणेगाई कुंभसहस्साई उवट्ठवेति, तए णं से भरहे गया चम्मरयणसमारूढे छत्तरयणसमोच्छन्ने मणिरयणकउज्जोए समुग्गयभूएणं सुइंसुहेणं सत्तरत्वं परिवसइ'णवि से खुहा ण विलिअं णेव भयं णेव विजए दुक्खं। भरहाहिवस्स रण्णो खंधावारस्सवि तहेव ॥ १॥ (सूत्र ६०)
।
Jain Education
For Private Persone
Only
Whaw.jainelibrary.org