________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥२४२॥
Jain Education Inter
विशेषणसमासः, नरेन्द्रः - प्रस्तावाद् भरतस्तस्य व्यायामः - तिर्यक्प्रसारितोभयबाहुप्रमाणो मानविशेषस्तेन प्रमाणेन प्रकृत्या - स्वभावेन विस्तृतं यत्तु चक्रिपरामृष्टं साधिकद्वादशयोजनानि विस्तृणाति तदस्य कारणिको विस्तार इति सूचितं, कुमुदानि चन्द्रधिकाशीनि तेषां खण्डं वनं तद्वद्धवलं राज्ञो भरतस्य 'संचारिम'त्ति सञ्चरणशीलं जङ्गमं विमानं आश्रयिणां सुखावहत्वात्, सूरातपवातवृष्टयः प्रतीतास्तासां ये दोषास्तेषां क्षयकरं यद्वा सूरातपवातवृष्टीनां | दोषाणां च - विषादिजन्यानां क्षयकरं, एतच्छत्रच्छायसमाश्रितानां हि विषादिदोषा अपि न प्रभवन्तीति विशेषः, तपोगुणैः- पूर्वजन्माचीर्णतपोगुणमहिम्ना लब्धं भरतेनेति शेषः, अथ गाथाबन्धेन विशेषणान्याह विचित्रत्वात्सूत्रकार| प्रवृत्तेः, अहतं-न केनापि योधंमन्येन रणे खण्डितमित्यर्थः, बहूनां गुणानां - ऐश्वर्यादीनां दानं यस्य तत्तथा, ऋतूनां - | हेमन्तादीनां विपरीता अथवा आर्पत्वात् षष्ठ्यर्थे पञ्चमीव्याख्यानेन ऋतुभ्यो विपरीता उष्णत्त शीता शीतत उष्णा अत एव कृतसुखा छाया यस्य, सूत्रे क्तान्तस्य परनिपातो 'जातिकालसुखादेर्नवा' (श्रीसिद्ध० अ०३ पा० १ सू० १५२ ) | इत्यनेन विकल्पविधानात् छत्रेषु रलं- उत्कृष्टं प्रधानं छत्रगुणोपेतत्वात् सुदुर्लभमल्पपुण्यानामिति, प्रमाणराज्ञांस्वस्वकालोचितशरीरप्रमाणोपेतराज्ञां अष्टसहस्रलक्षणलक्षितत्वात् प्रमाणीभूतराज्ञां वा षट्खण्डाधिपत्वेन सर्वराजसम्मतत्वात् एतेन वासुदेवादिव्युदासस्तेषां त्रिखण्ड भोक्कृत्वात्, चक्रवर्तिना तपोगुणानां सुचरित विशेषाणां फलानां एकदेशभागरूपं, सूत्रे क्लीबलिङ्गनिर्देशः प्राकृतत्वात्, कोऽर्थः ? - चत्राधिपपूर्वार्जिततपसां फलं - सर्वस्वं नवनिधान चतुर्द
For Private & Personal Use Only
३वक्षस्कारे छत्ररत्तवर्णनं सू. ५९
॥२४२॥
jainelibrary.org