________________
Jain Education Intern
ये तेषां कुलदेवताः - कुलवत्सला देवा मेघमुखा नाम्ना नागकुमारा देवास्तान् मनसि कुर्वन्तः २ तिष्ठन्तीति । अथ ते देवाः किमकुर्वन्नित्याह - 'तए ण' मित्यादि, ततः - चेतसि चिन्तानन्तरं तेषामापातकिरातानां अष्टमभक्ते परिण मति सति परिपूर्णप्राये इत्यर्थः, मेघमुखानां नागकुमाराणां देवानामासनानि चलन्ति, ततस्ते मेघमुखा नागकुमारा | देवा आसनानि चलितानि पश्यन्ति, दृष्ट्वा चावधिं प्रयुञ्जन्ति, प्रयुज्य चावधिना आपातकिरातानाभोगयन्ति, आभो| ग्य चान्योऽन्यं शब्दयन्ति, शब्दयित्वा चैवमवादिषुः किमवादिषुरित्याह- ' एवं खलु' इत्यादि, एवं - इत्थमस्ति खलु:निश्चये हे देवानुप्रियाः ! किं तदित्याह - जम्बूद्वीपे द्वीपे उत्तरार्द्धभरते वर्षे आपातकिराताः सिन्ध्यां महानद्यां वालुकासंस्तारकान् उपगताः - प्राप्ताः सन्तः उत्तानका अवसना अष्टमभक्तिका अस्मान् कुलदेवतान् मेघमुखनामकान् नागकुमारान् देवान् मनसि कुर्वाणाः २ तिष्ठन्तीति ततः श्रेयः खलु भो देवानुप्रिया ! अस्माकमापातकिरातानामन्तिके प्रादुर्भवितुं - समीपे प्रकटीभवितुमितिकृत्वा - पर्यालोच्यान्योऽन्यस्यान्तिके एतमर्थं - अनन्तरोक्तमभिधेयं प्रतिशृण्वन्ति-अभ्युपगच्छन्ति, परस्परं साक्षीकृत्य प्रतिज्ञातं कार्यं कर्त्तव्यमवश्यमिति दृढीभवन्तीत्यर्थः, प्रतिश्रवणानन्तरं ते यच्चक्रुस्तदाह- 'पडिसुणेत्ता' इत्यादि, प्रतिश्रुत्य च ते देवास्तयोत्कृष्टया त्वरितया गत्या यावद् व्यतित्रजन्तो २ यत्रैव जम्बूद्वीपो द्वीपो यत्रैव चोत्तर भरतार्द्ध वर्ष यत्रैव च सिन्धुर्महानदी यत्रैव चापातकिरातास्तत्रैवोपागच्छन्ति उपागत्य चान्तरिक्षप्रतिपन्नाः सकिंकिणीकानि पञ्चवर्णानि वस्त्राणि प्रवराणि परिहितास्तानापातकिरातानेवमवादिषुः
3
For Private & Personal Use Only
vjainelibrary.org