________________
यस्य कर्मधारयसमासः, मनोऽमिरामं 'कमलामेलं णामे णमित्यादि प्राग्वद् व्याख्येयमिति । ततः स किं कृतवानित्याह-'कुवलय'इत्यादि, तदसिरलं नरपतेर्हस्ताद् गृहीत्वा स सेनानीर्यत्रैवापातकिरातास्तत्रैवोपीगच्छति, उपागत्य चापातकिरातैः सार्द्ध सम्प्रलग्नश्चाप्यभूधो मिति शेषः, तच्छन्दवाक्यं यच्छन्दवाक्यमपेक्षत इत्याहियते यदिति, | यत् किंविशिष्टमित्याह-कुवलयदलश्यामलं नीलोत्पलदलसदृशमित्यर्थः, चः समुच्चये, रजनिकरमण्डल-चन्द्रबिम्ब तस्य निभ-सदृशं परिभ्राम्यमाणं यद्वर्तुलिततेजस्कत्वेन चन्द्रमण्डलाकारं दृश्यते इत्यर्थः, अथवा रजनिकरमण्डलनिभं मुखे इति शेषः, शत्रुजनविनाशनं, कनकरत्नमयो दण्डो-हस्तग्रहणयोग्यो मुष्टियस्य तत्तथी, नवमालिकानामक
यत्पुष्पं तद्वत् सुरभिगन्धो यस्य तत्तथा, नानामणिमय्यो लता-वझ्याकारचित्राणि तासां भक्तयो-विविधरचनायस्ताभिश्चित्रं-आश्चर्यकृत् , चः विशेषणसमुच्चये, प्रधौता-शाणोत्तारेण निष्किट्टीकृता अत एव 'मिसिमिसेंति'त्ति
दीप्यमाना तीक्ष्णा धारा यस्य तत्तथा, दिव्यं खङ्गरत्नं-खड्गजातिप्रधानं लोकेऽनुपमानं अनन्यसदृशत्वात् , तञ्च पुनर्बहुँगुणमस्तीति शेषः, कीदृशं?-वंशा-वेणवः रूक्षा-वृक्षाः शृङ्गाणि महिषादीनी अस्थीनि प्रतीतानि दन्ता हस्त्यादीनां कालायसं-लोहं विपुललोहदण्डकश्च-वरवजं हीरकजातीय तेषां भेदक, अत्र धनकथमेन दुर्भेद्यानामपि भेदकत्वं कथितं, किं बहुना?-यावत्सर्वत्राप्रतिहतं, दुर्भेदेऽपि वस्तुनि अमीघशक्तिकमित्यर्थः, किं पुनर्जङ्गमानां-चराणां पशुमनुध्यादीनां देहेषु, अत्र यावच्छब्दो न संग्राहकः किन्तु भेदकशक्तिप्रकर्षाक्तयेऽवधिवचनः, अथ तस्य मानमाह-पञ्चा
Jan Education
For Private Personel Use Only
O
w
ainelibrary.org