________________
Jain Education In
गलकर्णसंस्थिताः, पृष्ठमध्यनयनोपरिस्थिताः । ओष्ठसक्थिभुजकुक्षिपार्श्वगास्ते ललाटसहिताः सुशोभनाः ॥ ११ ॥” अत्र वृत्तिलेश: - प्रपाणं - उत्तरोष्ठतलं गल:- कण्ठः यत्र स्थित आवत देवमणिनामा हयानां महालक्षणतया प्रसिद्धः कर्णौ - प्रतीतौ एतेषु स्थानेषु संस्थिताः तथा पृष्ठं पर्याणस्थानं मध्यं प्रतीतं नयने अपि तथैव तदुपरि स्थिताः, तथा ओष्ठौ प्रतीतौ सक्थिनी - पाश्चात्यपादयोर्जानूपरिभागः भुजौ - प्राक् पादयोर्जानूपरिभागः कुक्षि:- अत्र वामो दक्षिणकुक्ष्यावर्त्तस्य गर्हितत्वात् पाव प्रसिद्धौ तद्गताः ललाटं - प्रतीतं तदावर्त्तेन सहिताः अत्र कर्णनयनादिस्थानानां द्विस| ज्याकत्वेऽपि जात्यपेक्षया द्वादशैव स्थानानि, स्थानभेदानुसारेण स्थानिभेदा अपि द्वादशैवेति, तथा सुकुलप्रसूतंहयशास्त्रोक्तक्षत्रियाश्वपितृकं मेधावि - स्वामिपदसंज्ञादिप्राप्तार्थधारकं भद्रकं - अदुष्टं विनीतं - स्वामीष्टकारित्वात् अणुकतनुकानां-अतिसूक्ष्माणां सुकुमालाना लोम्नां स्निग्धा छविर्यत्र तत्तथा, सुष्ठु यातं गमनं यस्य तत्तथा, अमरमनः पवनगरुडाः प्रतीताः तान् वेगाधिक्येन जयतीति अमरमनः पवनगरुडजयि, अत एव चपलशीघ्रगामि च - अतिशीघ्र - | गतिकं पश्चात्पदद्वयकर्मधारयः क्षान्त्या - क्रोधाभावेन न त्वसामर्थ्येन या क्षमा तया ऋषिमिव-अनगारमिव, क्षमाप्रधानत्वात्तस्य, न चरणैर्लत्तादायकं न च मुखेन दशकं न च पुच्छाघातकरमिति, सुशिष्यमिव प्रत्यक्षताविनीतं, अत्र ताकारः प्राकृतशैलीभवस्तेन प्रत्यक्षविनीतं, उदकं हुतवहः - अग्निः पाषाणः पांसू - रेणुः कर्द्दमः सशर्करं - सलघूपलखण्डं स्थानं सवालुकं - अत्र स्वार्थे इल्लप्रत्ययः बहुलसिकताकणं स्थानं तटं -नदीतटं कटको- गिरिनितम्बः विषमप्राग्भारौ
For Private & Personal Use Only
www.jainelibrary.org