SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte | भवति, न तु कर्णाद्यलङ्कारः, दृश्यन्ते च लोके एकं चामरं मूर्द्धालङ्कारभूतं चामरद्वयं च कर्णालङ्कारभूतं एकं च भालालङ्कारभूतं एकं च कंठालङ्कारभूतमिति, तेन यथोक्तव्याख्यानमेव सुन्दरं, अथ देवमतिविकल्पितादिविशेषणविशिष्ट उच्चैःश्रवानाम शहयोऽपि स्यादित्याह — अनभ्रवाहं - अनाचारी अभ्रवाहः अभ्यः उच्चैःश्रवास्तदन्यं 'अदब्भवाह' - | मिति पाठे तु अद-भूरि वहतीति अदववाहस्तत्, अभेले – दोषादिना असंकुचिते नयने यस्य तत्तथा, अत एवं कोकासिते - विकसिते बहले - दृढे अनपातित्वात् पत्रले - पक्ष्मवती न तु ऐन्द्रलुप्तिकरोगवशाद्रोमरहिते अक्षिणी यस्य तत्तथा, सदावरणे -शोभार्थं दंशमशकादिरक्षार्थं वा प्रच्छादनपटे नवकनकानि-नव्यस्वर्णानि यस्य तत्तथा स्वर्णतन्तु - व्यूतप्रच्छादनपटमित्यर्थः, तप्ततपनीयं तद्वदरुणे तालुजिह्वे यत्र तदेवंविधमास्यं यस्य तत्तथा ततः पूर्वविशेषणेन कर्मधारयः, श्रीकाया-लक्ष्म्या अभिषेक:-अभिषेचनं नाम शारीरलक्षणं घोणायां-नासिकायां यस्य तत्तथा, क्वचित्पाठान्तरे तु सिरिसातिसे अघोणमिति दृश्यते, तत्र शिरीषं - शिरीषपुष्पं तद्वदतिश्वेता घोणा यस्येति, तथा पुष्करपत्र| मिव- कमलदलमिव सलिलस्य बिन्दवो यत्र तदेवंविधं, कोऽर्थः ? - यथा पुष्करपत्रं जलान्तरस्थं वाताहतजलबिन्दु|युतं भवति तथेदमपि सलिलं - पानीयं लावण्यमित्यर्थः तस्य बिन्दवः - छटास्तैर्युतं, बिन्दुग्रहणेनात्र प्रत्यङ्कं लावण्यं सूचितं, लोकेऽपि प्रसिद्धमेतत् मुखेऽस्य पानीयमिति, अचंचल - स्वामिकार्येकरणे स्थिरं साधुवाहित्वात् चञ्चल| शरीरं जातिस्वभावात्, अथ यदि चञ्चलाङ्गस्तदाऽमेध्यवस्तुष्वपि स्वाङ्गप्रवर्त्तको भविष्यतीत्याह — चोक्षः - कृतस्नान For Private & Personal Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy