________________
श्रीजम्बू- सुदृढं पृष्ठं यस्य तत्तथा, वेत्रो-जलवंशः लता-कम्बा कशा-चर्मदण्डस्तेषां निपातैस्तथा अंकेल्लणप्रहारैः-तर्जनकवि- ३ वक्षस्कारे द्वीपशा- शेषाघातैश्च परिवर्जितं अश्ववारमनोऽनुकूलचारित्वात् अङ्गं यस्य तत्तथा, तपनीयमयाः स्थासका-दर्पणाकारा अश्वा- अश्वरलखन्तिचन्द्री-18 लङ्कारविशेषा यत्र तदेवंविधं अहिलाणं-मुखसंयमनविशेषो यस्य तत्तथा, वरकनकमयानि सुष्टु-शोभनानि पुष्पाणि या वृत्तिः
५७ स्थासकाश्च तैर्विचित्रारत्नमयी रजुः पार्श्वयोः-पृष्ठोदरान्तवर्त्यवयवविशेषयोर्यस्य तत्तथा,बध्यन्ते हि पट्टिकाः पर्याणदृढी॥२३५॥ करणार्थमश्वानामुभयोः पार्श्वयोरिति, काञ्चनयुतमणिमयानि केवलकनकमयानि च प्रतरकाणि-पत्रिकाभिधानभूषणानि
अन्तरान्तरा येषु तानि तथाभूतानि नानाविधानि घण्टिकाजालानि मौक्तिकजालकानि च तैः परिमण्डितेन पृष्ठेन शोभमानेन शोभमानं कर्केतनादिरत्नमयं मुखमण्डनार्थं रचितं आविद्धमाणिक्य-प्रीतमाणिक्यं सूत्रक-हयमुखभूषणविशेषस्तेन विभूषितं कनकमयपझेन सुष्टु कृतं तिलकं यस्य तत्तथा, देवमत्या-स्वर्गिचातुर्येण विविधप्रकारेण कल्पितं-सज्जितं
सुरवरेन्द्रवाहनम्-उच्चैःश्रवा हयस्तस्य योग्या-मण्डलीकरणाभ्यासस्तस्या 'व्रज गता'वित्यस्याचप्रत्यये ब्रज-पापकं, ये || गत्यर्थास्ते प्राप्त्यर्था इति वचनात् अयं भावः-यादृशं खुरलीश्रममुच्चैःश्रवाः करोति तादृशमयमपि, अत्र षष्ठ्यर्थे द्वितीया । प्राकृतत्वात् , तथा सुरूपं-सुन्दरं द्रवन्ति-इतस्ततो दोलायमानानि सहजचश्चलाङ्गत्वाद् गलभालमौलिकर्णद्वयमूलविनिवे-1| ॥२३५॥
शितत्वेन पञ्चसङ्ख्याकानि यानि चारूणि चामराणि तेषां मेलक-एकस्मिन् मूर्द्धनि सङ्गमस्तं धरद्-वहत् , चामरा इत्यत्र | स्त्रीनिर्देशः समयसिद्ध एव; गौडमतेन वा चामरा इत्यावन्तः शब्दः, अत्रापीडशब्दे व्याख्यायमाने मूर्दालंकार एवोक्तो
W
Jain Education inte 1
For Private Personal Use Only
ww.jainelibrary.org
1