________________
Jain Education Inter
नामुच्चत्वमीलने सर्वसङ्ख्या पूर्वोक्ता अशीत्यंगुलरूपा, मकारः सर्वत्रालाक्षणिकः, यत्तु श्रेष्ठाश्वमानमाश्रित्य लौकिकपा| रासरग्रन्थे 'जघन्यमध्यश्रेष्ठानामश्वानामायतिर्भवेत् । अंगुलानां शतं हीनं, विंशत्या दशभिस्त्रिभिः ॥ १ ॥ परिणाहो - | ङ्गुलानि स्यात्, सप्ततिः सप्तसप्ततिः । एकाशीतिः समासेन, त्रिविधं स्याद् यथाक्रमम् ॥ २ ॥ तथा षष्टिश्चतुःषष्टि| रष्टषष्टिः समुच्छ्रयः । द्विपञ्चसप्तकयुता, विंशतिः स्यान्मुखायतिः ॥ ३ ॥" इत्यत्र सप्तनवत्यंगुलान्यायतिः एकाशीत्यं| गुलानि परिणाहः अष्टषष्ट्यंगुलानि समुच्छ्रयः सप्तविंशत्यंगुलानि मुखायतिरित्युक्तमस्ति तदपरश्रेष्ठ हयानाश्रित्य न तु | हयरत्नमाश्रित्य दृष्टश्चायं विशेषः पुरुषोत्सेधे सामुद्रिके उत्तमपुरुषाणामष्टोत्तरशतांगुलान्युत्सेधः उत्तमोत्तमानां तु विंशत्युत्तरशतांगुलानि, अनेनास्य प्रमाणोपेतत्वं सूचितं, सम्प्रत्यवयवेषु लक्षणोपेतत्वं सूचयति-मुक्तोलीनाम अध | उपरि च सङ्कीर्णा मध्ये त्वीपद्विशाला कोष्ठिका तद्वत् संवृत्तं सम्यग्वर्तुलं वलितं - वलनस्खभावं न तु स्तब्धं मध्यं यस्य तत्तथा परिणाहस्य मध्यपरिधिरूपस्यात्रैव चिन्त्यमानत्वादु चितेयमुपमा, ईषदंगुलं यावत् प्रणतं - नन्तुमारब्धं अति| प्रणतस्योपवेष्टुर्दुःखावहत्वात् पृष्ठ - पर्याणस्थानं यस्य तत्तथा आरोहक सुखावहपृष्ठकमित्यर्थः, सम्यग् - अधोऽधः क्रमेण नतं पृष्ठं यस्य तत्तथा, सङ्गतं - देहप्रमाणोचितं पृष्ठं यस्य तत्तथा, सुजातं - जन्मदोषरहितं पृष्ठं यस्य तत्तथा, प्रशस्तं - शालिहोत्रलक्षणानुसारि पृष्ठं यस्य तत्तथा, किं बहुना ?, विशिष्टपृष्ठ - प्रधानपृष्ठमितियावत् उक्तं पृष्ठे पर्याणस्थानवर्णनं, अथ तत्रैवावशिष्टभागं विशिनष्टि - एणी - हरिणी तस्या जानुवदुन्नतं उभयपार्श्वयोर्विस्तृतं च चरमभागे स्तब्धं
For Private & Personal Use Only
www.jainelibrary.org