SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥२३४॥ Jain Education Inte | पश्यति दृष्ट्वा च आशुरुतादिविशेषणविशिष्टः कमलापीडं कमलामेलं वा नामाश्वरत्नमारोहति, अथ प्रस्तावागतं तद्वर्णनमाह - 'तए णं तं असीइमंगलमूसिअं इत्यारभ्य सेणावई कमेण समभिरूढे' इत्येतदन्तेन सूत्रेण, पदयोजना तत इति क्रियाक्रमसूचकं वचनं तं प्रसिद्धगुणं नाम्ना कमलामेलं अश्वरत्नं सेनापतिः क्रमेण - सन्नाहादिपरिधानविधिना समभिरूढ - आरूढः, किंविशिष्टमित्याह – अशीत्यङ्गुलानि उच्छ्रितं, अंगुलं चात्र मानविशेषः, नवनवत्यं गुलानि - एको| नशतांगुलप्रमाणः परिणाहो - मध्यपरिधिर्यस्य तत्तथा, अष्टोत्तरशतांगुलानि आयतं - दीर्घ, सर्वत्र मकारोऽलाक्षणिकः, | तुरगाणां तुङ्गत्वं खुरतः प्रारभ्य कर्णावधि परिणाहः पृष्ठपार्श्वोदरान्तरावधि आयामो मुखादापुच्छमूलं, यदाह परासरः"मुखादापेचकं दैर्घ्य, पृष्ठपार्श्वोदरान्तरात् । आनाह उच्छ्रयः पादाद्, विज्ञेयो यावदासनम् ॥ १ ॥" तत्रोच्चत्वसयामेलनाय साक्षादेव सूत्रकृदाह - 'बत्तीस 'मित्यादि, द्वात्रिंशदंगुलोच्छ्रितशिरस्कं चतुरंगुलप्रमाणकर्णकं, ह्रस्वकर्णत्वस्य | जात्यतुरगलक्षणत्वात्, अनेन कर्णयोरुच्चत्वेनास्य स्थिरयौवनत्वमभिहितं शंकुकर्णत्वात् हयानां यौवनपाते वनितास्तनयोरिव अनयोः पातः स्यात्, दीर्घत्वं चार्षत्वात्, अत्र योजनायाः क्रमप्राधान्येन पूर्वं कर्णविशेषणं ज्ञेयं पश्चाच्छिरसः, अश्वश्रवसो मूर्ध्न उच्चतरत्वात्, विंशत्यङ्गुलप्रमाणा बाहा - शिरोभागाधोवर्त्ती जानुनोरुपरिवर्त्ती प्राक्चरण| भागो यस्य तत्तथा, चतुरंगुलप्रमाणं जानु - बाहुजंघासंधिरूपोऽवयवो यस्य तत्तथा, तथा षोडशांगुलप्रमाणा जंघा - | जान्वधोवर्ती खुरावधिरवयवो यस्य तत्तथा, चतुरंगुलोच्छ्रिताः खुराः - पादतलरूपा अवयवा यस्य तत्तथा, एषामवयवा - For Private & Personal Use Only ३ वक्षस्कारे अश्वरत्नख• ङ्गरले सु. ५७ ॥२३४॥ ww.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy