________________
प्रस्तूयमानं भरतस्य चरितमाह-'तए णमित्यादि, ततस्तेषामुत्पातचिन्तनानन्तरं स भरतो राजा चक्ररत्नादेशितमार्गों यावत् समुद्ररवभूतामिव गुहां कुर्वन् २ तमिस्रागुहातः औत्तराहेण द्वारेण निरेति-निर्याति शशीव मेघान्ध
कार निवहात्। 'तए णमित्यादि, ततो गुहातो निर्गमानन्तरं ते आपातकिराता भरतस्य राज्ञः अग्रानीक-सैन्याग्रभागं 19 || 'एजमाणंति इयत् , आगच्छत् पश्यति दृष्ट्वा च आसुरुत्ता इत्यादि पदपंचकं प्राग्वत् अन्योऽन्यं शब्दयन्ति शब्द
यित्वा चैवमवादिषुरिति, किमवादिषुरित्याह-'तए णमित्यादि, एष देवानुप्रियाः! कश्चिदज्ञातनामकोऽप्रार्थितप्रार्थकादिविशेषणविशिष्टो वर्त्तते योऽस्माकं विषयस्य-देशस्योपरि वीर्येणात्मशक्त्या 'हव्वं ति शीघ्रमागच्छति, तत्तस्मातथा णमिति-इमं भरतराजानमित्यर्थः 'घत्तामो'त्ति क्षिपामो दिशो दिशि विकीर्णसैन्यं कुर्म इत्यर्थः, यथा एषोऽस्माकं विषयस्योपरि वीर्येण नो शीघ्रमागच्छेत्, सूत्रे सप्तम्यर्थे वर्तमानानिर्देशः प्राकृतत्वात् , एतस्मिन् समये किं जातमित्याह-'इतिकट्ट'इत्यादि, इति-अनन्तरोदितं कृत्वा-विचिन्त्यान्योऽन्यस्यान्तिके एतमर्थ प्रतिशृण्वन्ति-ओमिति प्रतिपद्यन्ते, प्रतिश्रुत्य च सन्नद्धबद्धेत्यादिपदानि प्राग्वत् यत्रैव भरतस्य राज्ञोऽग्रानीकं तत्रैवोपागच्छन्ति, उपागत्य च भरतस्य राज्ञोऽग्रानीकेन साधं संप्रलग्नाश्चाप्यभूवन् , यो मिति शेषः, युद्धाय प्रवृत्ता इत्यर्थः, अथ ते किं कुर्वन्तीत्याह-तए णं ते आवाडचिलाया'इत्यादि, ततो युद्धप्रवृत्त्यनन्तरं ते आपातकिराता भरतस्य राज्ञोऽग्रानीकं हताः केचन प्राणत्याजनेन मथिताः केचन मानमथनेन पातिताश्च केचन प्रहारदानेन प्रवरवीराः-प्रधानयोधा यत्र तत्तथा 8
Jan Education inte
For Private Porn Use Only
W
w
.jainelibrary.org