________________
Jain Education In
हिउपहरणा जेणेव भरहस्स रण्णो अग्गाणीअं तेणेव उवागच्छंति २ ता भरहस्स रण्णो अग्गाणीएण सद्धिं संपलग्गा यावि होत्या, तर णं ते आवाडचिलाया भरहस्त्र रण्णो अग्गाणीअं हयमहिअपवरवीरघाइअविवडिअचिंधद्वयपडागं किच्छप्पाणोवगयं दिसोदिसिं पडिसेहिति । (सूत्रं ५६ ).
'तेणं कालेणं तेणं समएण' मित्यादि, तस्मिन् काले - तृतीयारकप्रान्ते तस्मिन् समये - यंत्र भरत उत्तर भरतार्द्धवि - जिगीषया तमिस्रातो निर्याति, उत्तरार्धभरतनाम्नि वर्षे -क्षेत्रे आपाता इति नाम्ना किराताः परिवसन्ति, आढ्या - धनिनः दृष्टा-दर्पवन्तः वित्ताः - तज्जातीयेषु प्रसिद्धाः विस्तीर्णविपुलानि - अतिविपुलानि भवनानि येषां ते तथा शयनासनानि प्रतीतानि यानानि - रथादीनि वाहनानि - अश्वादीनि आकीर्णानि - गुणवन्ति येषां ते तथा, ततः पदद्वयस्य कर्मधारयः, बहु-प्रभूतं धनं-गणिमधरिममेयपरिच्छेद्यभेदात् चतुर्विधं येषां ते तथा, बहु- बहुनी जातरूपरजते - स्वर्णरूप्ये येषां ते तथा ततः पदद्वयस्य कर्मधारयः, आयोगो-द्विगुणादिवृद्ध्यर्थं प्रदानं प्रयोगश्च कलान्तरं तौ संप्रयुक्तौ - व्यापारितौ यैस्ते तथा, विच्छर्द्दिते- त्यक्ते बहुजनभोजनदानेनावशिष्टोच्छिष्टसम्भवात् सञ्जातविच्छ वा - सविस्तारे बहुप्रकारत्वात् प्रचुरेप्रभूते भक्तपाने - अन्नपानीये येषां ते तथा, बहवो दासीदासाः गोमहिषाश्च प्रतीताः गवेलका - उरभ्राः एते प्रभूता येषां ते तथा, ततः पदद्वयस्य कर्मधारयः, बहुजनेनापरिभूताः, सूत्रे षष्ठी आर्षत्वात्, सूराः प्रतिज्ञातनिर्वहणे दाने वा वीराः संग्रामे विक्रान्ता - भूमण्डलाक्रमणसमर्था विस्तीर्णविपुले - अतिविपुले बलवाहने - सैन्यगवादिके दुःखानाकुलत्वात् येषां ते तथा, बहुषु समरेषु सम्परायेषु, अनेन चातिभयानकत्वं सूचितं, समररूपेषु संपररायेषु युद्धेषु लब्धलक्षा-अमोघहस्ताश्चान्य
For Private & Personal Use Only
www.jainelibrary.org