________________
तोडके तृतीयान्मंडलायोजनं मुक्त्वा पञ्चमं, ततस्तत्सम्मुखं पश्चिमदिकपाटतोडके षष्ठं, पुनस्तावतैवान्तरालेन पूर्वदि-11 ग्भित्तौ सप्तम, ततस्तत्सम्मुखं पश्चिमदिग्भित्तौ अष्टम, ततः पूर्वदिग्भित्तौ सप्तमान्मंडलाद्योजनान्तरे नवम, ततः पश्चिमभित्तौ अष्टमात् तावतैवान्तरालेन दशममित्येवं पूर्वभित्तौ पश्चिमभित्तौ च मंडलान्यालिखंस्तावद् गच्छति यावच्चरममष्टनवतितमं मंडलमुत्तरद्वारसत्कपश्चिमदिक्कपाटे, एवं चैकैकस्यां भित्तावेकोनपञ्चाशत् मंडलानि उभयमीलने चाष्टनवतिरिति, अत्र चोभयोः पक्षयोर्मध्ये आद्यः आवश्यकबृहद्वृत्तिटिप्पनकप्रवचनसारोद्धारबृहद्वृत्त्यादावुक्तो द्वितीयस्तु || मलयगिरिकृतक्षेत्रविचारवृत्त्यादाविति । अथ प्रकृतं प्रस्तूयते-'तए णमित्यादि, ततो-मंडलालिखनानन्तरं सा15 तमिस्रागुहा भरतेन राज्ञा तैोजनान्तरितैर्यावद्योजनोद्योतकरैरेकोनपञ्चाशता मंडलैरालिख्यमानैः क्षिप्रमेवालोकसौरप्रकाशं भूता-प्राप्ता, एवमुद्योतं-चान्द्रप्रकाशं भूता, किंबहुना ?, दिवसभूता-दिनसदृशी जाता चाप्यभवत्, IS चः समुच्चये, अपिः सम्भावनायां, तेन नेयं गुहा मंडलप्रकाशपूर्णा किन्तु सम्भाव्यते आलोकभूता, एवमग्रेतनपद-15 द्वयमपि, कचिदिवसभूअ इत्यस्य स्थाने दीवसयभूया इति पाठस्तत्र दीपशतानि भूतेति व्याख्येयं, अथान्तगुहें वत्ते| मानयोः परपारं जिगमिषूणां प्रतिबन्धकभूतयोरुन्मन्नानिमग्नानामकनद्योः स्वरूपं प्ररूपयितुकामः प्राह
तीसे णं तिमिसगुहाए बहुमज्झदेसभाए एत्थ णं उम्मग्गणिमग्गजलाओ णाम दुवे महाणईओ पण्णत्ताओ, जाओ णं तिमिसगुहाए पुरच्छिमिल्लाओ मित्तिकडगाओ पबूढाओ समाणीओ पञ्चत्थिमेणं सिंधु महाणई समप्पेंति, से केणडेणं भंते ! एवं वुशइ उमग्ग
See
For Private Personal Use Only
I
f
w .jainelibrary.org