SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ३ वक्षस्कारे माणरत्न काकिणीर| लेन मण्डलालेखनंच सू. ५४ ॥२२८॥ |विंशतिरपरस्यां चतुर्विंशतिरित्येकोनपञ्चाशत्मण्डलानि भवन्ति, एतानि च किल गुहायां तिर्यग् द्वादश योजनानि प्रका|शयन्ति, ऊर्ध्वाधोभावेन चाष्टौ योजनानि, गुहाया विस्तरोच्चत्वस्य च क्रमेण एतावत एव भावात् , अग्रतः पृष्ठतश्च | योजनं प्रकाशयन्तीति, ननु गोमूत्रिकाविरचनक्रमेण मण्डलालिखने कथमेषां योजनान्तरितत्वं?, यद्यकभित्तिगतमण्डलापेक्षया तर्हि योजनद्वयान्तरितत्वमापयेत अन्यथा द्वितीयमण्डलस्यैकभित्तिगतत्वप्रसङ्गः तथा च सति गोमूत्रिकाभङ्गः, अन्यभित्तिगतमण्डलापेक्षया तु तिर्यक् साधिकद्वादशयोजनान्तरितत्वमिति, उच्यते, पूर्वभित्तौ प्रथमं मण्डलमालिखति, ततस्तत्सम्मुखप्रदेशापेक्षया योजनातिक्रमे द्वितीयमण्डलमालिखति, ततस्तत्सम्मुखप्रदेशापेक्षया योजनातिक्रमे पूर्वभित्तौ तृतीयमण्डलमालिखतीत्यादिक्रमेण मण्डलकरणात् गोमूत्रिकाकारत्वं योजनान्तरितत्वं च व्यक्तमेवेति सर्व सुस्थं, अथ पञ्चाशयोजनायामायां गुहायामेकोनपश्चाशता मण्डलैर्यत्प्रकाशकरणमुक्तमित्यस्यार्थस्य सुखावबोधाय संक्षेपेण मण्डलपञ्चकस्य स्थापना दय॑ते, यथा- ! एवं षट्कोष्ठकपरिकल्पितषड्योजनक्षेत्रे एकस्मिन् पक्षे त्रीणि अन्यत्र तु द्वे इत्युभयमीलने पञ्च मण्डलानि भवन्ति, एवमनेन गोमूत्रिकामण्डलकविरचनक्रमेण | पञ्चाशयोजनायामायां गुहायामेकोनपञ्चाशतोऽपि मण्डलकानां स्थापना स्वयं ज्ञेयेति, अन्ये तु पूर्वदिकपाटे आदौ योजनं मुक्त्वा प्रथमं मण्डलं करोति, ततः पश्चिमदिकपाटे तत्सम्मुखं द्वितीय, ततः पूर्वदिकपाटगतप्रथममंडलादुत्तरतो योजनं मुक्त्वा पूर्वदिकपाटतोडुके तृतीयं, ततः पश्चिमदिकपाटतोडुके तत्सम्मुखं चतुर्थ, ततः पूर्वदिकपाट ॥२२८॥ Jain Education a l For Private Personal Use Only Lanw.itainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy