________________
श्रीजम्बूद्वीपशाविचन्द्री - या वृत्तिः
॥ २१ ॥
Jain Education In
याधिकं गतस्ततो योजनस्य गव्यूतद्वयाधिकस्यैकेन भागे हृते यल्लब्धं योजनं गन्यूतद्वयाधिकं, एतन्मूलसम्बन्धिनो द्वादशयोजनप्रमाणविस्तारादपनीयते, स्थितानि दश योजनानि मन्यूतद्वयाधिकानि, एतावत्प्रमाणः सार्द्धयोजना| तिक्रमे विस्तारः, एवं सर्वत्रापि भाव्यं, एवं ऋषभकूटजम्बूशाल्मलीवृक्षवनगतकूटानामिष्टस्थाने विस्तारानयनार्थमिदमेव करणं भाव्यं, अथास्वां गवाक्षकटकवर्णनायाह-'सा' अनन्तरोदितस्वरूपा 'जगती ण' मिति प्राग्वत् जगती एकेन महागवाक्षकटकेन - बृहज्जालकसमूहेन सर्वतः सर्वासु दिक्षु समन्तात् सामस्त्येन संपरिक्षिष्ठा व्यासेत्वर्थः, स गवाक्षकटक ऊर्वोच्चत्वेनार्द्धयोजनं द्वे गव्यूते विष्कम्भेन पश्च धनुःशतानि, सर्वात्मना रक्षमयः, तथा अच्छ:, अत्र यावत्करणात् प्राग्व्यावर्णितं विशेषणपदं ग्राह्यं, इयश्च गवाक्षश्रेणिर्लवणोदपार्श्वे जगतीभित्ति बहुमध्य भागगताऽवगन्तब्या, रिरं| सुदेव विद्याधरवृन्दरमणस्थानं । अथ जगत्युपरिभागवर्णनायाह- 'तस्या' यथोक्तस्वरूपाया जगत्या 'उपरि' उपरितने | तले यो बहुमध्यदेशलक्षणो भागः, भागश्च प्रदेशलक्षणोऽपि स्यात् तत्र च पद्मवरवेदिकाया अवस्थानासम्भवः जसो देशग्रहणेन महान् भाग इत्यर्थः, स च चतुर्योजनात्मकजगत्युपरितनतलस्य मध्ये पञ्चधनुःशतात्मक इति सूत्रे | एकारान्तता मागधभाषालक्षणानुरोधात्, 'अत्र' एतस्मिन् बहुमध्यदेशभागे णमिति प्राग्वत् महती एका पद्मवरवेदिका - देवभोगभूमिः प्रज्ञप्ता मया शेषैश्च तीर्थकरैः, सा च ऊर्द्धाच्चत्वेनार्द्धयोजनं पञ्च धनुःशतानि विष्कम्भेन जगत्याः समा-समाना जगतीसमा सैव जगतीसमिका परिक्षेपेण-परिरयेण, कोऽर्थः १ - जम्बूद्वीपस्य सर्वतो वलयांकारेण व्यव
For Private & Personal Use Only
१ वक्षस्कारे वेदिकावर्णनं सू. ४
॥ २१ ॥
wjainelibrary.org