SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ - तथा 'नीरजा' सहजरजोरहिता, तथा 'निर्मला' आगन्तुकमलरहिता, तथा 'निष्पका' कलङ्कविकला कईमरहिता वा, तथा निष्कन्कटा-निष्कवचा निरावरणा छाया-दीप्तिर्यस्याः सा तथा, सप्रभा-स्वरूपतः प्रभावती अथवा स्वेनआत्मना प्रभाति-शोभते प्रकाशते वेति स्वप्रभा, तथा समरीचिका-सकिरणा वस्तुस्तोमप्रकाशकरी इत्यर्थः, तथा प्रसादाय-मनःप्रसत्तये हिता तत्कारित्वात् प्रासादीया मनःप्रहादकारिणीति भावः, तथा 'दर्शनीया' दर्शनयोग्या यां|| पश्यतश्चक्षुषी श्रमं न गच्छत इति, तथा 'अभिरूवा' अमि-सर्वेषां द्रष्टुणां मनःप्रसादानुकूलतया अभिमुखं रूपं यस्याः । सा, अत्यन्तकमनीया इति भावः, अत एव प्रतिविशिष्टम्-असाधारणं रूपं यस्याः सा प्रतिरूपा, अथवा प्रतिक्षणं नवं|| | नवमिव रूपं यस्याः सा तथा, अथ अत्र सूत्रेऽनुक्तोऽपि वाचयितणामधिकार्थजिज्ञापयिषया जगत्या इष्टस्थाने विस्तारानयनोपायः प्रदर्श्यते, तत्र मूले मध्ये उपरि च विष्कम्भपरिमाणं साक्षादेव सूत्रे लभ्यते, अपान्तराले उपरिष्टादधोगमनेऽयमुपायः-जगतीशिखरादधो यावदुत्तीर्ण तस्मिन्नेकेन भक्ते सति यल्लब्धं तच्चतुर्भिर्युतमिष्टस्थाने विस्तारः, तथाहि-उपरितनभागाद्योजनमेकं गव्यूताधिकमवतीर्ण ततोऽस्य राशेः एकेन भागे हृते लब्धमेकं योजनं गव्यताघिकं, तच्च योजनचतुष्कयुतं क्रियते, जातानि पञ्च योजनानि गन्यूताधिकानि, एतावांस्तत्र प्रदेशे विष्कम्भः, एवं | सर्वत्र भाव्यं, सम्पति मूलादूर्द्धगमने विस्तारानयनोपायः-मूलादूगमने यावदूर्द्ध गतं तस्यैकेन भागे हृते यल्लब्धं | तस्मिन्मूलविस्ताराच्छोधिते यच्छेषं स तत्र योजनादावतिक्रान्ते विस्तारः, तद्यथा-मूलादुत्पत्य योजनमेकं गव्यूतर Jain Education inte For Private Personel Use Only N ainelibrary.org.
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy