________________
रूध्वीकृता आयाम प्रतिपद्यते सैव तिर्यग्व्यवस्थापिता विष्कम्भभाग भवतीत्यायामविष्कम्भयोरेकतरनिर्णयेऽप्यपरनिर्णयः स्यादेवेति सूत्रे विष्कम्भस्यैव ग्रहणं, तद्ग्रहणे चायामोऽपि गृहीत एव, समचतुरस्रत्वात्तस्येति, तदेवं सर्वतश्चतुरङ्गलप्रमाणमिदं सिद्धं, यत्तु तस्स णं एगमेगा कोडी उस्सेहंगुलविक्खंभा तं च समणस्स भगवओ महावीरस्स | अद्धंगुलं, इत्यनुयोगद्वारसूत्रे उक्तं तन्मतान्तरमवसेयं, तथाऽष्टभिः सुवर्णैर्निष्पन्नमष्टसुवर्ण, अष्टसुवर्णमूलद्रव्येण निष्पन्नमित्यर्थः, चकारो विशेषणसमुच्चये सर्वत्र, तथा विषं जङ्गमादिभेदभिन्नं तस्य हरणं, स्वर्णाष्टगुणानां मध्ये विषहरणस्य प्रसिद्धत्वात् , अस्य च तथाविधस्वर्णमयत्वादिति, अतुलं-तुलारहितमनन्यसदृशमित्यर्थः, चतुरस्रसंस्थानसं-18 स्थितमिति तु विशेषणं पूर्वोक्ताधिकरणिदृष्टान्तेन भाव्यमिति, ननु अधिकरणिदृष्टान्ते भाव्यमाने नास्य पूर्वोक्ता चतुरंगुलतोपपद्येत अधिकरणेरधः संकुचितत्वेन विषमचतुरस्रत्वादित्याह-समतल मिति, समानि न न्यूनाधिकानि | तलानि षडपि यस्य तत्तथा, अथैतदेव यच्छब्दगभितवाक्यद्वारा विशिनष्टि-यतः काकणीरत्नात् मानोन्मान [प्रमाण] योगा:-एते मानविशेषव्यवहारा लोके चरन्ति प्रवर्त्तन्ते इत्यर्थः, तत्र मानं धान्यमानं सेतिकाकुडवादि, रसमान || चतुःषष्टिकादि, उन्मानं कर्षपलादि खण्डगुडादिद्रव्यमानहेतुः, उपलक्षणात् सुवर्णादिमानहेतुः प्रतिमानमपि ग्राह्य | गुञ्जादि, किंविशिष्टास्ते व्यवहाराः?-सर्वजनानां-अधमर्णोत्तमर्णानां प्रज्ञापका-मेयद्रव्याणामियत्तानिर्णायकाः, अय|माशयो-यथा सम्प्रति आप्तजनकृतनिर्णयात कुडवादिमानं जनप्रत्यायकं व्यवहारप्रवर्तकं च भवति तद्वच्चक्रवर्तिकाले |
Jain Education
a
l
For Private Porn Use Only
Www.jainelibrary.org