SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥२२७॥ Jain Education Inte कारणिकपुरुषैः काकणीरत्नाङ्कितं तत्तादृशं भवेदित्यर्थः यच्छब्द गर्भेणैव वाक्येन माहात्म्यान्तरमाह - नापि चन्द्र तत्र तिमिरं नाशयतीति योजनीयं, न वा सूर्यः, अत्र इर्वाक्यालङ्कारे एवं सर्वत्र, नवाऽग्निदींपादिगतः न वा मणयः स्तत्र तिमिरं नाशयन्ति, प्रकाशं कर्तुमलंभूष्णव इत्यर्थः, यत्रान्धकारे अन्धकारयुक्तत्वेनाभेदोपचारात् अन्धकारमनास्तीति अभ्रादित्वादप्रत्यय विधानाद्वा अन्धकारवतिगिरिगुहादौ तकत्-काकणीरलं दिव्यं-प्रभावयुक्तं तिमिरं | नाशयति, अथ यदीदं प्रकाशयति तदा कियत् क्षेत्रं प्रकाशयतीत्याह- द्वादश योजनानि तस्य लेश्याः-प्रभा विवर्द्धन्ते, अमन्दाः सत्यः प्रकाशयन्तीत्यर्थः, किंविशिष्टा लेश्याः १ - तिमिरनिकरप्रतिषेधिकास्तमिस्रा दिगुहायाः पूर्वापरतो द्वादश| योजनविस्तारयोस्तासां प्रसरणात् 'रत्तिं च'त्ति प्रथमान्तयच्छब्दाध्याहारादर्थवशाद्विभक्तिपरिमाणाच्च यद्रलं रात्रौ चो वाक्यान्तरारम्भार्थः सर्वकालं स्कन्धावारे दिवससदृशं यथा दिवसे आलोकस्तथा रात्रावपीत्यर्थः, आलोकं करोति, | यस्य प्रभावेण चक्रवर्त्ती तमिस्रां गुहां अत्येति - प्रविशति सैन्यसहितो द्वितीयमर्द्धभरतमभिजेतुं उत्तरभरतं वशीकर्तु मित्यर्थः, न चात्रान्तरा यच्छब्दगर्भितवाक्यावतारेण वाक्यान्तरप्रवेशो नाम सूत्रदूषणमिति वाच्यं, आर्यत्वात् | तस्यादुष्टत्वेन शिष्टव्यवहारात्, यथा आर्षे छन्दस्सु वर्णाद्याधिक्यादावपि न छन्दोभ्रष्टत्वदोषो महापुरुषोपज्ञत्वेनात्वात् तथैव शिष्टव्यवहारात्, राजवरो - भरतः 'कागणिं' ति पदैकदेशे पदसमुदायोपचारात् काकणीरलं गृहीत्वा - लात्वा | तमिस्रागुहायाः पौरस्त्यपाश्चात्ययोः कटकयोः - भित्त्योः प्राकृतत्वाद् द्विवचने बहुवचनं, योजनान्तरितानि प्रमाणांगुल For Private & Personal Use Only ३वक्षस्कारे मणिरत् काकिणीरलेन मण्डलालेखनं च सू. ५४ ॥२२७॥ wjainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy