SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ नुष्यादिप्रतिपक्षोत्थं भयमिह ज्ञेयं, अन्यथाऽश्लोकादिभयानि महतामेव भवेयुरिति, अथैतद् गृहीत्वा नृपतिर्यच्चकार तदाह-'तं मणि'न्ति तन्मणिरत्नं गृहीत्वा स नरपतिर्भरतो हस्तिरत्नस्य दाक्षिणात्ये कुम्भे निक्षिपति-निबध्नाति, | 'कुंभीए' इत्यत्र स्त्रीत्वं प्राकृतत्वात् , 'तए णमित्यादि, ततः स भरताधिपो नरेन्द्रो हारावस्तृतेत्यादिविशेषणकदम्बकं | प्राग्वत् मणिरत्नकृतोद्योतश्चक्ररत्नदेशितमार्गो यावत् समुद्ररवभूतामिव गुहामिति गम्यं कुर्वन् २ यत्रैव तमिस्रा-1|| गुहाया दाक्षिणात्यं द्वारं तत्रैवोपागच्छति, उपागत्य च तमिस्रागुहा दाक्षिणात्येन द्वारेणात्येति-प्रविशति, शशीव मेघान्धकारनिवहं । प्रवेशानन्तरं यत्कृत्यं तदाह-तए ण'मित्यादि, ततः स भरतो राजा काकणीरत्नं परामृशतीत्युत्तरेण सम्बन्धः, किंविशिष्टमित्याह-चत्वारि चतसृषु दिक्षु द्वे तूर्ध्वमधश्चेत्येवं षट्सङ्ख्याकानि तलानि यत्र तत्तथा, तानि चात्र मध्यखण्डरूपाणि, यैर्भूमावविषमतया तिष्ठन्तीति, द्वादश अध उपरि तिर्यक् चतसृष्वपि दिक्षु प्रत्येकं चत४सृणामश्रीणां भावात् अश्रया-कोटयो यत्र तत्तथा, कर्णिकाः-कोणाः यत्र अश्रित्रयं मिलति तेषां चाध उपरि प्रत्येकं चतुणों सद्भावादष्टकर्णिकं, अधिकरणिः-सुवर्णकारोपकरणं तद्वत् संस्थितं-संस्थानं यस्य तत्तथा, तत्सदृशाकारं समचतुरस्रत्वात् , आकृतिस्वरूपं निरूप्यास्य तौल्यमानमाह-अष्टसुवर्णा मानमस्येत्यष्टसौवर्णिकं, तत्र सुवर्ण-18 मानमिदं-'चत्वारि मधुरतृणफलान्येकः श्वेतसर्षपः षोडश श्वेतसर्वपा एक धान्यमाषफलं द्वे धान्यमाषफले एका गुञ्जा पञ्च गुञ्जा एकः कर्ममाषक: षोडश कर्ममाषकाः एक सुवर्ण इति, एतादृशैरष्टभिः सुवर्णैः काकणीरत्न निष्पद्यते इति, For Prate Personel Use Only Com .jainelibrary.org JainEducation in a
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy