________________
न कथमुपशशामेति, उच्यते, सोपक्रमोपद्रवविद्रावण एव तस्य सामर्थ्यात् , अनुपक्रमोपद्रवस्तु सर्वथाऽनपासनीय एव, अन्यथा विजयमाने वीरदेवे कुशिष्यमुक्ता तेजोलेश्या सुनक्षत्रसर्वानुभूती अनगारौ कथं भस्मतां निनाय ?, अत एवावश्यंभाविनो भावा महानुभावैरपि नापनेतुं शक्या इति, शुभकरं-कल्याणकर हितकरं-उक्तैरेव गुणैरुपकारि | राज्ञः-चक्रवर्त्तिनो हृदयेप्सितमनोरथपूरकं गुहाकपाटोद्घाटनादिकार्यकरणसमर्थत्वात् दिव्यं यक्षसहस्राधिष्ठितमित्यर्थः, | अत्र सेनापतेः सप्ताष्टपदापसरणं प्रजिहीर्षोर्गजस्येव दृढप्रहारदानायाधिकप्रहारकरणार्थमिति, प्रत्यवष्वष्कणादनु कि चक्रे इत्याह-'पच्चोसक्कित्ता'इत्यादि, प्रत्यवष्वक्य च तमिस्रागुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ दण्डरत्नेन महता २ शब्देन त्रिकृत्वः-त्रीन् वारान् आकुट्टयति-ताडयति, अत्र इत्थंभावे तृतीया, यथा महान् शब्द उत्पद्यते तथा-18 प्रकारेण ताडयतीत्यर्थः, अत्र गुहाकपाटोद्घाटनसमये द्वादशयोजनावधिसेनानीरत्नतुरगापसरणप्रवादस्तु आवश्यक|टिप्पनके निराकृतोऽस्ति, यथा-"यश्चात्र द्वादशयोजनानि तुरगारूढः सेनापतिः शीघ्रमपसरतीत्यादिप्रवादः सोऽना|| गामिक इव लक्ष्यते, क्वचिदप्यनुपलभ्यमानत्वादिति," ततः किं जातमित्याह-'तए ण 'मित्यादि, ततः-ताडना|| दनु तमिस्रागुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ सुषेणसेनापतिना दण्डरलेन महता २ शब्देनाकुट्टितौ सन्तौ महता |२ शब्देन दीर्घतरनिनादिनः क्रौंचस्येव बहुव्यापित्वादु बनुनादित्वाच्च य आरवः-शब्दस्तं कुर्वाणौ 'सरसरस्स'त्ति अनुकरणशब्दस्तेन तादृशं शब्दं कुर्वाणी कपाटावित्यर्थः स्वके २-स्वकीये २ स्थानेऽवष्टम्भभूततोडकरूपे यत्रागतात्र
Jan Education Intel
For Private Personal Use Only