________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृतिः
॥२२१ ॥
Jain Education Inte
| रितो वस्त्रादिभिः सम्मानितो बहुमानवचनादिभिः सहर्षः प्राप्तप्रभुसत्कारत्वात् विसृष्टः - स्वस्थानगमनार्थमनुज्ञातः | स्वकं - निजं पटमंडपं - दिव्यपटकृतमण्डपं मध्यपदलोपी समासः पटमण्डपोपलक्षितं प्रासादं वा अतिगतः - प्राविशत्, | अथ स्वकावासप्रविष्टो यथा सुषेणो विललास तथा चाह - 'तते ण' मित्यादि, ततः स सुषेणः सेनापतिः 'हाए' इत्यादि प्राग्वत्, जिमितो - भुक्तवान् राजभोजनविधिना भुक्त्युत्तरं - भोजनोत्तरकाले आगतः सन् उपवेशनस्थाने | इति गम्यं, अत्र यावत्पदादिदं दृश्यं - 'आयंते चोक्खे परमसुईभूए' इति, अत्र व्याख्या - आचान्तः - शुद्धोदक योगेन कृतहस्तमुखशौचः चोक्षो - लेपसिक्थाद्यपनयनेन अत एव परमशुचीभूतः - अत्यर्थं पावनीभूतः, इदं च पदत्रयं योज| नायाः क्रमप्राधान्येन भुत्तरागए समाणे इति पदात् पूर्व योज्यं, इत्थमेव शिष्टजनक्रमस्य दृश्यमानत्वात्, अन्यथा भुक्त्युत्तरकाले आचमनादिकं पामराणामिव जुगुप्सापात्रं स्यात् पुनः सेनापतिं विशिनष्टि - सरसेन गोशीर्षचन्दने| नोक्षिता- सिक्ताः गात्रे - शरीरे भवा गात्राः - शरीरावयवा वक्षःप्रभृतयो यत्र तदेवंविधं शरीरं यस्य स तथा, अत्र यश्चन्दनेन सेचनमुक्तं तन्मार्गश्रमोत्थवपुस्तापव्यपोहाय, सिक्तं हि चन्दनमङ्गुलितापविरहितत्वादतिशीतलस्पर्शं भवतीति, | ' उप्पि 'ति उपरि प्रासादवरस्य सूत्रे च लुप्तविभक्तिकतया निर्देश आर्षत्वात् गतः - प्राप्तः स्फुटद्भिरिव - अतिरभसा| स्फालनवशाद्विदलद्भिरिव मृदङ्गानां - मईलानां मस्तकानीव मस्तकानि - उपरितनभागा उभयपार्श्वे चर्मोपनद्धपुटानीति तैरुपनृत्यमान इत्यादि योज्यं, अत्र करणे तृतीया, तथा द्वात्रिंशताऽभिनेतव्यप्रकारैः राजप्रश्नीयोपाङ्गसूत्रविवृतैः पात्रैर्वा
For Private & Personal Use Only
३वक्षस्कारे सुषेणेन सिन्धुपश्चिमनिष्कुट -
साधनं
सू. ५२
॥२२१॥
jainelibrary.org