________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृतिः
॥२२०॥
Jain Education In
| त्पत्तनानि तथा सिंहलकान - सिंहलदेशोद्भवान् बर्बरकाश्च - बर्बर देशोद्भवान् सर्वं च अङ्गलोकं बलावलोकं च परमरम्यं, इमे च द्वे अपि म्लेच्छजातीयजनाश्रयभूते स्थाने, यवनद्वीपं - द्वीपविशेषं, अत्र चकाराः समुच्चयार्थाः एवमग्रेsपि, त्रयाणामप्यमीषां साधारणविशेषणमाह - प्रवरमणिरलकनकानां कोशागाराणि - भाण्डागाराणि तैः समृद्धं-भृशं भृतं, आरचकान् - आरब देशोद्भवान् रोमकांश्च - रोमकदेशोद्भवान् अलसण्डविषयवासिनश्च पिक्खुरान् कालम् - खान् जोन कांश्च-लेच्छविशेषान् 'ओअऊण'त्ति पदेन योगः, अथैतैः साधितैरशेषमपि निष्कुटं साधितमुत नेत्याहउत्तरः- उत्तरदिग्वर्त्ती वैताढ्यः, इदं हि दक्षिणसिन्धु निष्कुटान्तेन, अस्माद्वैताढ्य उत्तरस्यां दिशि वर्त्तते इत्यर्थः, तं संश्रिताः- तदुत्पत्तिकायां स्थिताश्च म्लेच्छजातीर्वहुप्रकाराः उक्तव्यतिरिक्ता इत्यर्थः, अत्र सूत्रे क्वचिद् विभक्तिव्यत्ययः | प्राकृतत्वात्, दक्षिणापरेण - नैर्ऋतकोणेन यावत् सिन्धुसागरान्त इति - सिन्धुनदी सङ्गतः सागरः सिन्धुसागरः मध्यप| दलोपे साधुः स एवान्तः- पर्यवसानं तावदवधि इत्याशयः, सर्वप्रवरं कच्छं च- कच्छ देशं 'ओअवेऊण' ति साधयित्वा स्वाधीनं कृत्वा प्रतिनिवृत्तः - पश्चाद्वलितो बहुसमरमणीये च भूमिभागे तस्य कच्छदेशस्य सुखेन निषण्णः - सुस्थस्तस्थौ, स सुषेण इति प्रकरणाल्लभ्यते, ततः किं जातमित्याह -- ' ताहे ते जणवयाण' इत्यादि, 'ताहे' तस्मिन् काले ते इतितच्छन्दस्योत्तरवाक्ये ' सबे घेत्तूणे'त्यत्र योजनीयत्वेन व्यवहितः सम्बन्धः आर्षत्वात् जनपदानां - देशानां नगराणां पत्तनानां च प्रतीतानां ये च 'तहिं' तत्र निष्कुटे स्वामिकाः - चक्रवर्त्तिसुषेणसेनान्योरपेक्षया अल्पर्द्धिकत्वेनाज्ञातस्त्रा
For Private & Personal Use Only
वक्षस्कारे सुषेणेन सिन्धुपश्चिमनिष्कुटसाधन
सू. ५२
॥२२०॥
www.jainelibrary.org