SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ Jain Education उदात्तस्वभावः ओजस्वी- आत्मना वीर्याधिकः तेजसा शारीरेण लक्षणैश्च सत्त्वादिभिर्युक्तः, म्लेच्छभाषासु - पारसीआ| रबीप्रमुखासु विशारदः - पण्डितः, तत्तन्म्लेच्छदेशभाषाज्ञो हि तत्तद्देशीयम्लेच्छान् सामदानादिवाक्यैर्वोद्धुं समर्थो भवति, अत एव चित्रं विविधं चारु-अग्राम्यतादिगुणोपेतं भाषत इत्येवंशीलः, भरतक्षेत्रे निष्कुटानां निम्नानां च-गम्भीर| स्थानानां दुर्गमानां च - दुःखेन गन्तुं शक्यानां दुष्प्रवेशानां दुःखेन प्रवेष्टुं शक्यानां भूभागानां विज्ञायकस्तत्र तद्वासीव प्रचारचतुरः, अत एवैनां योग्यतां विभाव्यैतादृशे शासने नियुक्तः, अर्थशास्त्रं - नीतिशास्त्रादि तत्र कुशलः रत्नं सेना| पतिः- सैन्येशेषु मुख्यः, भरतेन राज्ञा एवमुक्तः सन् हृष्टतुष्टेत्यादि प्राग्वत्, ततः स किं करोतीत्याह - 'पडिसुणेत्ता' इत्यादि, सर्वं चैतत् पाठसिद्धं, नवरं सुषेणविशेषणं सन्नद्धं शरीरारोपणात् बद्धं कसाबन्धनतः वर्म्म - लोहकत्तलादिरूपं सञ्जातमस्येति वमितं ईदृशं कवचं - तनुत्राणं यस्य स तथा, उत्पीडिता - गाढं गुणारोपणाद् दृढीकृता शरासनपट्टिका - धनुर्दण्डो येन स तथा, पिनद्धं ग्रैवेयं - ग्रीवात्राणं ग्रीवाभरणं वा येन स तथा बद्धो-ग्रन्थिदानेन आविद्धः | परिहितो मूर्द्धावेष्टनेन विमलवर चिह्न पट्टो - वीरातिवीरतासूचकवस्त्र विशेषो येन स तथा पश्चात्पदद्वयस्य कर्मधारयः, | गृहीतान्यायुधानि प्रहरणानि च येन स तथा, आयुधप्रहरणयोस्तु क्षेप्याक्षेप्यकृतो विशेषो बोध्यः, तत्र क्षेप्यानि बाणादीनि अक्षेप्यानि खङ्गादीनि अथवा गृहीतानि आयुधानि प्रहरणाय येन स तथेति । 'तए ण'मित्यादि, प्राग्व्याख्यातार्थं, नवरं वाक्ययोजनायां ततः सुषेणश्चर्मरत्नं परामृशति - स्पृशति, इत्यन्तं सम्बन्ध इति एतत्प्रस्तावाच्चर्म्म - For Private & Personal Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy