________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥२१५॥
Jain Education Inte
क्षणाद्यत्र वक्तव्यं, एवं च कर्मचक्रिणां वैताढ्यसुरादीनां साधनेऽपि जिनचक्रिणां तु सर्वत्र दिग्विजययात्रायां शरप्रमोक्षणादिकमन्तरेणैव प्रवृत्तिः यतस्तत्र तेषां तथैव साध्यसिद्धिरिति, स च कः सङ्कल्प इत्याह- ' उप्पण्णे' त्ति उत्पन्नः खलुः - निश्चये जम्बूद्वीपनाम्नि द्वीपे भरतनामनि वर्षे -क्षेत्रे भरतो नाम राजा चतुरन्तचक्रवतीं तज्जीतमेतत् - आचार | एषः अतीतवर्त्तमानानागतानां सिन्धुनानीनां देवीनां भरतानां राज्ञां, अत्र बहुवचनं कालत्रयवर्त्तिनां चत्र्यर्द्धचक्रिणां परिग्रहार्थ, उपस्थानिकं - प्राभृतं कर्तुं वर्त्तते इति, तद् गच्छामि णमिति प्राग्वत्, अहमपि भरतस्य राज्ञ उपस्थानिकं करोमीति, चिन्तितं हि कार्यं कृतमेव फलदं भवतीत्याह - 'इतिकट्टु' इत्यादि, इतिकृत्वा - चिन्तयित्वा कुम्भानामष्टोत्तरं सहस्रं रत्नचित्रं नानामणिकनकरत्लानां भक्तिः - विविधरचना तया चित्रे च द्वे कनकभद्रासने ऋषभचरित्रे तु रलभद्रासने उक्ते कटकानि च त्रुटिकानि च यावदाभरणानि च गृह्णाति, गृहीत्वा च तयोत्कृष्टयेत्यादि यावदेवमवादीदिति, अत्र यावत्पदसंग्रहो व्यक्तः, किमवादीदित्याह - 'अभिजिए ण' मित्यादि, अभिजितं देवानुप्रियैः- श्रीमद्भिः केवलकल्पं परिपूर्ण भरतं वर्षं तेनाहं देवानुप्रियाणां विषयवासिनी - देशवास्तव्या अहं देवानुप्रियाणामाज्ञप्तिकिङ्करीआज्ञासेविका तत् प्रतीच्छन्तु - गृह्णन्तु देवानुप्रियाः ! ममेदमेतद्रूपं प्रीतिदानमिति, अत्र णं सर्वत्र प्राग्वत्, इतिकृत्वा कुम्भाष्टाधिकसहस्रं रत्नचित्रं नानामणिकनकरलभक्तिचित्रे वा द्वेकनकभद्रासने कटकानि च यावत् स एव मागधसुरगमोऽत्रानुसर्त्तव्यः तावद्यावत्प्रतिविसर्जयति । तत उत्तरविधिमाह - 'तए ण मित्यादि, सर्वं प्राग्वत्, नवरं
For Private & Personal Use Only
३ वक्षस्कारे सिन्धुदेवी
साधन
सू. ५०
॥२१५॥
w.jainelibrary.org