SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter नन्दीश्वरे कुण्डले वा राजधान्यः, यथा वाऽस्या एव देव्या असङ्ख्येयतमे द्वीपे राजधानी सिन्ध्वावर्त्तनकूटे च प्रासा - दावतंसक इति, एवं सिन्धुद्वीपे सिन्धुदेवी भवन सद्भावेऽपि अत एव सूत्रबलादत्रापि तदस्तीति ज्ञायते, तथाच सति 'सिन्धूए देवीए भवणस्स अदूरसामंते' इत्यादिकं 'खंधावारनिवेस करेइ' इत्यन्तं वक्ष्यमाणसूत्रमप्युपपद्यतेऽन्यथा तदपि विघटतेति । तदनु भरतः किं कृतवानित्याह - 'तए ण' मित्यादि, सुबोधं 'जाव सिंधूए' इत्यादि, अत्र याव | त्करणात् वर्द्धकिरलशब्दापनपौषधशालाविधापनादि सर्वं ग्राह्यं तेन पौषधशालायां सिन्धुदेव्याः साधनायेति शेषः | अष्टमभक्तं प्रगृह्णाति प्रगृह्य च पौषधिकः - पूर्वव्याख्यातपौषधत्रतवान् अत एव ब्रह्मचारी 'जाव दब्भसंथारोवगए' |इत्यादि यावद्दर्भसंस्तारकोपगतः, अत्र यावत्करणात् उन्मुक्तमणिसुवर्ण इत्यादि सर्वं पूर्वोक्तं ग्राह्यं, अष्टमभक्तिक:| कृताष्टमतपाः सिन्धुदेवीं मनसि कुर्वन् - ध्यायंस्तिष्ठति । 'तए ण' मित्यादि, ततस्तस्य भरतस्य राज्ञोऽष्टमभके परिण | मति - परिपूर्णप्राये जायमाने सिन्ध्वा देव्या आसनं चलति, ततः सा सिन्धुदेवी आसनं चलितं पश्यति दृष्ट्वा अवधिं प्रयुनक्ति प्रयुज्य च भरतं राजानं अवधिना आभोगयति - उपयुङ्क्ते आभोग्य च स्थितायास्तस्या इत्यध्याहार्यं अय| मेतद्रूपः आध्यात्मिकश्चिन्तितः प्रार्थितो मनोगतः संकल्पः समुदपद्यत इत्थमेवान्वयसङ्गतिः स्यात् अन्यथा भिन्न| कर्तृकयोः क्रिययोः क्त्वाप्रत्ययप्रयोगानुपपत्तिः स्थात्, भिन्नकर्तृकता चैवं-सिन्धुदेवी आभोगयित्री सङ्कल्पश्च समुत्पादकः, इयं च सिन्धुदेवी आसन कम्पनाडुतोपयोगा सती स्मृतजातीया स्वत एवानुकूलाशया संजज्ञे, तेन न शरप्रमो For Private & Personal Use Only lainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy