________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥ ११२ ॥
Jain Education Int
सतं, पदव्यत्ययः प्राकृतत्वात्, वरे कूर्परे पिञ्जनके इति प्रसिद्धे यस्य स तं सुचक्रं वरनेमीमण्डलं- प्रधानचक्रधारावृतं वरे - शोभमाने धूस्तुंडे - धूर्बीकूर्बरे यस्य स तं वरवचैर्वद्धे तुंबे यस्य स तं वरकाञ्चनभूषितं, वराचार्य:- प्रधान| शिल्पी तेन निर्मितं वरतुरगैः सम्प्रयुक्तं वरसारथिना सुष्ठु संप्रगृहीतं स्वायत्तीकृतमिति, इह च चक्रादीनां पुनर्वचनं रथावयवेषु प्रधानताख्यापनार्थं, 'वरपुरिसे' इत्यादि तु पूर्व योजित, 'दुरुढे आरूढे' इत्यत्र समानार्थकं पदद्वयोपादानं सुखारूढताज्ञापनार्थं, अथवा दुरूढे इत्यस्य सौत्रशब्दस्य विवरणरूपोऽयमारूढशब्द इति, अथार्थान्तरारम्भार्थं पुनरुक्तिर्न दोषायेति उक्तमेवार्थं नामप्रकटनाय रथस्यारोहकालप्रकटनाय चाह - 'पवररयणपरिमंडिअ 'मित्यादि, प्रवररलपरिमण्डितं कनककिङ्किणीजालशोभितं, अयोध्यामनभिभवनीयमित्यर्थः, सौदामिनी- विद्युत्, तप्तं यत्कनकं तच्चानलोत्तीर्ण रक्तवर्णं भवतीति ततशब्देन विशेषितं पङ्कजं कमलं तच्च सामान्यतो रक्तं वर्ण्यते 'जासुअण' त्ति जपाकुसुमं ज्वलितज्वलनो - दीप्ताग्निः अत्र पदविपर्यासः प्राकृतशैलीभवः शुकस्य तुण्डं मुखं एतेषामित्र रागो-रक्तता यस्य स तं गुजार्द्ध- रक्तिकारागभागः बन्धुजीवक - द्विप्रहरविकाशिपुष्पं रक्तः - संमर्द्दितो हिंगुलकनिकरः सिन्दूरंप्रतीतं रुचिरं कुङ्कुमं - जात्यघुसृणं पारापतचलनः प्रतीतः कोकिलनयने पदव्यत्ययः आर्यत्वात् दर्शनावरणं - अधरोष्ठं तच सामुद्रिकेऽत्यरुणं व्यावर्ण्यते इति रतिदो - मनोहरोडतिरकः मधिकारुणोऽशोकतरुः ईदृशं च कनकं किंशुकंपलाशपुष्पं तथा गजतालु सुरेन्द्रगोपको - वर्षा रक्तवर्णः क्षुद्रजन्तुविशेष एभिः समा-सदृशा प्रभा - छविर्यस्य तथा
For Private & Personal Use Only
esses
३वक्षस्कारे प्रभासतीर्थ साधनं सु. ४९
॥२१२॥
w.jainelibrary.org