SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ! बयत इति, अत्र च एतत्सूत्रादर्शेषु 'तवणिज्जजालकलिअमिति पाठोऽशुद्ध एव सम्भाव्यते, आवश्यकचूणो अस्यैव पाठस्य दर्शनात् , कंकटकाः-सन्नाहास्तेषां नियुक्ता-स्थापिता कल्पना-रचना यत्र स तथा तं, यथाशोभं तत्र सन्नाहाः स्थापिताः सन्तीति भावः, तथा प्रहरणैरनुयातं-भृतमित्यर्थः, एतदेव व्यक्तित आह-खेटकानि प्रतीतानि कणकावाणविशेषाः धनूंषि मण्डलायाः-तरवारयः वरशक्तयः-त्रिशूलानि कुन्ता-भल्लाः तोमराश्च-बाणविशेषाः शराणां शतानि येषु तादृशा ये द्वात्रिंशत्तूणा-भस्त्रकास्तैः परिमण्डितं-समन्ततः शोभितं कनकरत्नचित्रं, तथा युक्तं तुरगैरित्यनेन सम्बद्ध्यते, किंविशिष्टैरित्याह-हलीमुखं रूढिगम्यमिति बलाको-बकः गजदन्तचन्द्रौ प्रतीतौ मौक्तिक-मुक्ताफलं तणसोल्लिअत्ति-मल्लिकापुष्पं कुन्द-श्वेतः पुष्पविशेषः कुटजपुष्पाणि-वरसिन्दुवाराणि निर्गुण्डीपुष्पाणि कन्दलानि-कन्दलवृक्षविशेषपुष्पाणि वरफेननिकरो हारो-मुक्ताकलापः काशाः-तृणविशेषास्तेषां प्रकाशः-औज्वल्यं तद्वद्धवलैः अमरा-देवा मनांसि-चित्तानि पवनो-वायुस्तान् वेगेन जयतीति अमरमनःपवनजयिनः, अत एव च| पलशीघ्रं-अतिशीघ्रं गामिनो-गमनशीलाः, ततः पदद्वयकर्मधारयः, तैश्चतुर्भिः-चतुःसङ्ख्याकैः तथा चामरैः कनकैश्च भूषितमङ्गं येषां ते तथा तैः, चामरस्य स्त्रीत्वं आर्षत्वात् , अथ पुना रथं विशिनष्टि-सच्छत्रं सध्वजं सघण्टं सपता-18 कमिति प्राग्वत् , सुकृतं-सुष्टु निर्मितं सन्धिकर्म-सन्धियोजनं यत्र स तं, सुसमाहितः-सम्यग्यथोचितस्थाननिवेशितो यः समरकणकः-संग्रामवाद्यविशेषस्तस्य वीराणां वीररसोत्पादकत्वेन तुल्यो गम्भीरो घोषः-चीत्काररूपो ध्वनिर्यस्य N Jain Education For Private Persone Use Only ainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy