________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥२११॥
Jain Education Inter
प्रवालविशेष: अमयोश्च वर्णादितारतम्यकृतो विशेषो बोध्यः तैर्विभूषितं, रचिताः प्रतिदिशं द्वादश २ सद्भावात् | अष्टाचत्वारिंशदरा यत्र ते तथा, विशेषणस्य परनिपातः प्राकृतत्वात्, तपनीयपट्टै रक्तस्वर्णमयपट्टकैर्लोके महलू इति प्रसिद्धैः संगृहीते - दृढीकृते तथा युक्ते-उचिते नातिलघुनी नातिमहती इत्यर्थः ततः पदत्रयस्य कर्मधारयः एतादृशे तुम्बे यस्य स तथा तं प्रधर्षिताः - प्रकर्षेण घृष्टाः प्रसिताः- प्रकर्षेण बद्धाः ईदृशा निर्मिता- निवेशिताः नवाः- अजीर्णाः पट्टा:- पट्टिका यत्र तत्तथाविधं यत्पृष्ठ - चक्रपरिधिरूपं यल्लोके पूंठी इति प्रसिद्धं तत्परिनिष्ठितं - सुनिष्पन्नं कार्यनिर्वाहकत्वेन यस्य स तं अत्र पदव्यत्ययः प्राकृतत्वात्, विशिष्टलष्टे-अतिमनोज्ञे नवे - सद्यस्के लोहवर्धे-अयश्चर्मरज्जुके तयोः कर्म - कार्य यत्र स तं अयमर्थः- तत्र रथे येऽवयवास्ते लोहवर्धाभ्यां बद्धा इति, हरि:- वासुदेवस्तस्य प्रहरणरत्नं चक्रं 'चक्क मुसलजोही' ति वचनात् तत्सदृशे चक्रे यस्य स तं कर्केतनेन्द्रनीलशस्य करूपरलत्रयमयं सुष्ठु सम्यग् आहितं - निवेशितं कृतसुन्दरसंस्थानमित्यर्थः ईदृशं बद्धं जाल कटकं - जालकसमूहो यत्र स तथा तं, अयं भावः - रथगुप्तौ जालकपदवाच्या सच्छिद्ररचनाविशिष्टा अवयवविशेषा बहवस्तत्र शोभां जनयन्तीति, तथा प्रशस्ता विस्तीर्णा समा-अवका धूर्यत्र स तं पुरमिव गुप्तं समन्ततः कृतवरूथं, रथे हि प्रायः सर्वतो लोहादिमयी आवृतिर्भवति, पुरवरदृष्टान्तकथनेनायमर्थः सम्पन्न: - यथा पुरं गोपुर भागपरित्यागेन समन्ततो वप्रगुप्तं भवति तथाऽयमध्यारोहस्थानसारथिस्थाने विहाय गुप्त इति, सुकिरणं - शोभमानकान्तिकं यत्तपनीयं रक्तं सुवर्ण तन्मयं योत्कं तेन कलितं, योक्रेण हि वोढस्कन्धे युगं
For Private & Personal Use Only
३वक्षस्कारे प्रभासतीर्थ
साधनं
सू. ४९
॥२११॥
Jainelibrary.org