________________
Jain Education
| एवंविधः प्रकाशः - तेजःप्रसरो यस्य स तं बिम्बफलं - गोल्हकं 'सिलप्पवालं' ति अत्र अश्लील शब्द इवे श्रियं लातीति ऋफिं| डादित्यालत्वे श्लीलं एवंविधं यत्प्रवालं श्लीलप्रवाल-परिकम्मितविद्रुमः शिलाप्रवालं वा विद्रुमः उत्तिष्ठत्सूरः-उद्गच्छत्सूर्य| स्तेषां सदृशं सर्वर्तुकानि - पड़तुभवानि सुरभीणि कुसुमानि - अप्रथितपुष्पाणि माल्यदामानि च - प्रथितपुष्पाणि यत्र स तं, उच्छ्रितः - ऊर्ध्वकृतः श्वेतध्वजो यत्र स तं महामेघस्य यद्रसितं - गर्जितं तद्वद् गम्भीरः स्निग्धो घोषो यस्य स तं शत्रुहृदयक|म्पनं, प्रभाते च - अष्टमतपःपारणकदिन मुखे चतुर्घण्टमश्वरथं पौषधिकः - आसन्नपारितपौषधतो नरपतिरारूढ इति सम्ब | न्धः, सश्रीकं नाम्ना पृथ्वीविजयलाभमिति विश्रुतं, अत्रारूढः पुरुषो भूविजयं लभते इति सान्वर्थनामकमित्यर्थः कीदृशो नर| पतिरित्याह-लोकविश्रुतयशाः, अहतं - क्वचिदप्यवयवेऽखण्डितं सर्वत्रास्खलितप्रचारं वा रथमित्यर्थः। रथारोहानन्तरं भरतः | किं चक्रे इत्याह-- 'तए ण'मित्यादि, ततः स भरतो राजा चतुर्घण्टमश्वरथमारूढः सन् शेषं तथैवेति, कियत्पर्यन्तमित्याह'जाव दाहिणाभिमुहे' इत्यादि, शेषं सूत्रं मागधतीर्थगमानुसारेण ज्ञेयं, अथोक्तं यावद्दक्षिणाभिमुखो वरदामतीर्थेन वरदामनाम्नाऽवतरणमार्गेण लवणसमुद्रमवगाहते, 'सेसं तहेव' ति वचनात् 'हयगय रहपवर जोहकलिआए सद्धिं संपरि| वुडे महया भडचडगरपहगरवंदपरिखिते चक्करयणदेसिअमग्गो अणेगरायवर सहस्साणु आयमग्गे महया उकिटुसीहणायबोलकलकलरवेणं पक्खुभिअमहासमुद्दरबभूअपिव करेमाणे २' इत्यन्तं सूत्रं दृश्यं, कियद्दूरं लवणसमुद्रमवगाहते इत्याह- यावत्तस्य रथवरस्य कूर्परावाद्रौ भवतः, अत्र यावच्छन्दो न संग्राह्यपदसंग्राहकः किन्तु जलावगाहप्रमाण
tonal
For Private & Personal Use Only
www.jainelibrary.org