________________
द्वीपक्षान्तिचन्द्री - या वृत्तिः
॥२०९ ॥
Jain Education Inte
गर्भाधान
इसका काला जथवा तूफा वास्तुक्षेत्रमा परिवेष्टितानि - भावे कंप्रत्ययविधानात् वल्लिवेष्टनानि - वास्तुक्षेत्रोद्गत वृक्षेष्वारोहणानि एतेषा | दोषास्तेषां विज्ञायक- विशेषज्ञं, ते चेमे- "गर्भिणीवलिर्वास्तुप्ररूढा आसन्नफलदा, कन्या व सा तत्रैव नासत्रफला, वृक्षाच लक्षवटाश्वत्थोदुम्बराः प्रशस्ताः आसनाः कण्टकिनो रिपुभयदा" इत्यादि, प्रशस्तदुमकाष्ठं वा गृहादि प्रशस्त, वल्लिवेष्टितानि प्रशस्तवल्लिसम्बन्धीनि प्रशस्तानि गृहमहीषु न चाप्रशस्तवल्लिसम्बधीनि, एनमेवार्थमाह वराहः - "शस्त्रौपधिद्रुमलतामधुरा सुगन्धा, स्निग्धा समा न शुषिरा च मही नृपाणाम् । अध्यध्वनि श्रमविनोदमुपागतानां धत्ते श्रियं | किमुत शाश्वतमन्दिरेषु १ ॥ १ ॥” पुनस्तदेव विशेषयन्नाह —— गुणाढ्यः - प्रज्ञाधारणाबुद्धिहस्तलाघवादिगुणवान् षोडश | प्रासादा :- सान्तनस्वस्तिकादयो भूपतिगृहाणि तेषां करणे कुशलः, चतुःषष्टिविकल्पाः गृहाणां वास्तुप्रसिद्धाः तत्र विस्तृता- अमूढा मतिर्यस्य स तथा, विकल्पानां चतुःषष्टिरेव - प्रमोदविजयादीनि षोडश गृहाणि पूर्वद्वाराणि स्वस्तनादीनि | षोडश दक्षिणद्वाराणि धनदादीनि षोडश उत्तरद्वाराणि दुर्भगादीनि षोडश पश्चिमद्वाराणि सर्वमीलने चतुःषष्टिरिति नन्द्यावर्त्ते-गृहविशेषे एवमप्रेतनविशेषणेष्वपि, चः समुच्चये, वर्द्धमाने स्वस्तिके रुचके तथा सर्वतोभद्र सन्निवेशे च बहु| विशेषः- प्रकारो ज्ञेयतया कर्त्तव्यतया च यस्य तत् तथा, सूत्रे च क्वचित् सप्तमीलोपः प्राकृतत्वात्, नन्द्यावर्त्तादिगृहविशेषस्त्वयं वराहोक्तः - " नन्द्यावर्त्तमलिन्दैः शालाकुड्यात् प्रदक्षिणान्तगतैः । द्वारं पश्चिममस्मिन् विहाय शेषाणि
For Private & Personal Use Only
वास्तुनिये शविधिः
सू. ४७
॥२०९॥
www.jainelibrary.org