________________
1॥१॥” इति । अथ प्रकृतं प्रस्तूयते-'वत्थुपरिच्छाए'त्ति, अत्र चशब्दोऽध्याहार्यस्तेन वास्तुपरीक्षायां च विधिज्ञ
मिति योज्यं, "गृहमध्ये हस्तमितं खात्वा परिपूरितं पुनःश्वभ्रम् । यधूनमनिष्टं तत् समे समं धन्यमधिकं चेत् ॥१॥" | इत्यादि, अथवा वास्तूनां परिच्छदे-आच्छादनं-कटकम्बादिभिरावरणं तत्र विधिज्ञं यथाहकटकम्बादिविनियोजनात् ,तथा 18|| नेमिपार्थेषु-सम्प्रदायगम्येषु भक्तशालासु-रसवतीशालासु कोहनीषु-कोट्ट-दुर्ग स्थायिराजसत्कं नयन्ति-प्रापयन्ति
यायिराज्ञामिति व्युत्पत्त्या कोट्टन्यः-याः कोदृग्रहणाय प्रतिकोट्टभित्तय उत्थाप्यन्ते तासु, चशब्दः समुच्चये, तथा वासगृहेषु-शयनगृहेषु विभागकुशलं-यथौचित्येन विभाजकं, चः समुच्चये, तथा छेद्य-छेदनाह काष्ठादि वेध्यं वेधनाहं तदेव
चः समुच्चये दानकर्म-अङ्कनार्थ गिरिकरक्तसूत्रेण रेखादानं तत्र प्रधानबुद्धिः, तथा जलगानां-जलगतानां भूमिकानां | जलोत्तरणार्थकपद्याकरणाय भाजन-यथौचित्येन विभाजकं, चः समुच्चये, उन्मग्नानिमग्नानद्याद्युत्तरे तस्यैतादृशसामर्थ्यस्य सुप्रतीतत्वात् , जलस्थलयोः सम्बन्धिनीषु गुहाविव गुहासु सुरङ्गास्वित्यर्थः तथा यन्त्रेषु-घटीयन्त्रादिषु परिखासु-प्रतीतासु, चः पूर्ववत् कालज्ञाने-चिकीर्षितवास्तुप्रशस्ताप्रशस्तलक्षणपरिज्ञाने, “वैशाखे श्रावणे मार्गे, फाल्गुने क्रियते गृहम् ।। | शेषमासेषु न पुनः, पौषो वाराहसम्मतः॥१॥” इत्यादिके, तथैवेति वाच्यान्तरसंग्रहे शब्दे-शब्दशास्त्रे सर्वकलाव्यु-16
त्पत्तेरेतन्मूलकत्वात् वास्तुप्रदेशे-गृहक्षेत्रैकदेशे "ऐशान्यां देवगृहं महानसं चापि कार्यमाग्नेय्याम् । नैर्ऋत्यां भाण्डो18| पस्करोऽर्थधान्यानि मारुत्याम् ॥१॥" इत्यादिगृहावयवविभागे शास्त्रोक्तविधिविधाने प्रधान-मुख्यं गर्भिण्यो-जात-18
Jain Education Intel
For Private Personel Use Only
Liainelibrary.org