SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte - किरीटानि - तान्येव शिखरत्रयोपेतानि पताका- लघुपटरूपा ध्वजा - बृहत्पटरूपा वैजयन्त्यः- पार्श्वतो लघुपताकिकाद्वय| युक्ताः पताका एव, चामराणि चलन्ति छत्राणि तेषां सम्बन्धि यदन्धकारं - छायारूपं तेन कलितः, अत्रान्धकारश|ब्दान्तसमासपदा आर्पत्वात् तृतीयैकवचनलोपो द्रष्टव्यः कलित इति च पृथगेव तेन वक्ष्यमाणानन्तरसूत्रे कलित| शब्दो योजनीयोऽन्यथा तत्स्थचकारस्य नैरर्ध्यक्थापत्तेः, यद्वा अत्र समस्तोऽपि कलितशब्दश्चकारकरणबलादेव तत्रापि | योजनीय इति, प्रस्तुत विशेषणस्यायं भावार्थ:- चलतश्चक्रिणो मुकुटादिका तत्सैन्यस्य च छत्रव्यतिरिक्ता सामग्री तथा अस्ति यथाऽध्वनि मनागपि आतपक्लेशो नास्तीति, अत्र भरतसैन्यसम्बद्धा छाया भरतस्य विशेषणत्वेन सम्बद्ध्यते, | सैन्यकृतो जयः स्वामिन्येवेति व्यवहारदर्शनात्, पुनर्भरतमेव विशिनष्टि - असयः - खगविशेषाः क्षिप्यन्ते सीसकगु| टिका आभिरिति क्षेपिण्यो - हथनालिरिति लोकप्रसिद्धा खड्गाः सामान्यतः चापाः कोदण्डाः नाराचा:- सर्वलोहवाणाः कणका - बाणविशेषाः कल्पम्यः- कृषाण्यः शूलानि - प्रतीतानि लकुटा :- प्रतीताः भिन्दिपाला - हस्तक्षेप्याः महा| फला दीर्घा आयुधविशेषाः धनूंषि-वंशमयवाणासनानि किरातजनप्रामाणि तूणा :- तूणीराः शराः - सामान्यतो बाणाः इत्यादिभिः प्रहरणैः, अच चकारेण पूर्वविशेषणस्यः समस्तोऽसमस्तों वा कलितशब्दो योज्यः, तेन तैः संयुक्त इति, | दिग्विजयोद्यतानां राज्ञां हि शखाणि सेनासहपचीनि भवन्तीति ज्ञापितं, कथमुक्तप्रहरणैः कलित इत्याह- 'काले - ' त्यादि, अत्र रुधिरशब्दो रकार्थः तेन कानीसरकपीतशृङ्गानि जातितः पञ्चवर्णानि व्यक्तितस्तु तदवान्तरभेदादने • For Private & Personal Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy