________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥२०४॥
Jain Education Inter
कित्त्वा चैवमवादीदिति, अन सूत्रे यावच्छब्दो लिपिप्रमादापतित एव दृश्यते, संग्राहकपदाभावात्, अन्यत्र तद्गमा - दावदृश्यमानत्वाच्चेति, अथ किमवादीदित्याह - 'खिप्पामेवेति, सर्वं प्राग्वत्, यथा राजाज्ञां पौरा विदधुस्तथा चाह'तए ण' मित्यादि, व्यक्तं, ततो मागधतीर्थकुमारदेवविजयाष्टाहिकामहामहिमानन्तरं चक्ररतं कीदृशं क्व च सचचारेत्याह-- 'तर प'मित्यादि, ततस्तद्दिव्यं चक्ररलं वज्रमयं तुम्बं - अरकनिवेशस्थानं यत्र तत्तथा, लोहिताक्षररत्नमया अरका यत्र तत्तथा, जाम्बूनदं - पीतसुवर्ण तन्मयो नेमि:- धारा यत्र तत्तथा, नानामणिमयं अन्तः क्षुरप्राकारत्वात् क्षुरप्ररूपं स्थालं - अन्तः परिधिरूपं तेन परिगतं यत्तत्तथा, मणिमुक्ताजालाभ्यां भूषितं, नन्दि:- भम्भामृदङ्गादिर्द्वादश| विधसूर्यसमुदायस्तस्य घोषस्तेन सहगतं यत्तत्तथा, सकिङ्किणीकं - क्षुद्रघण्टिकाभिः सहितं दिव्यमिति विशेषणस्य प्रागु| कत्वेऽपि प्रशस्ततातिशयख्यानार्थं पुनर्वचनं, तरुणरविमण्डलनिभं नानामणिरत्नघण्टिकाजालेन परिक्षिप्तं - सर्वतो व्याधं, | 'सवोउअ' इत्यादि विशेषणचतुष्टयं प्राग्वत् नाम्ना च सुदर्शनं नरपतेः चक्रिणः प्रथमं- प्रधानं सर्वरलेषु तस्य मुख्य- | | त्वाद्वैरिविजये सर्वत्रामोघशक्तिकत्वाच्च चक्ररलं, प्रथमशब्दस्य 'पढमे चंदयोगे' इत्यादौ प्रधानार्थकत्वेन प्रयोगदर्श| नान्नेदमसङ्गतिभागू व्याख्यानमिति, मागधतीर्थकुमारस्य देवस्य अष्टाहिकायां महामहिमायां निवृत्तायां सत्यां आयुध| गृहशालातः प्रतिनिष्क्रामति प्रतिनिष्क्रम्य च दक्षिणपश्चिमां दिशं नैर्ऋतीं विदिशं प्रतीति शेषः, वरदामतीर्थाभिमुखं प्रयातं चलितं चाप्यभवत्, अयं भाग:- शुद्धपूर्वास्थितस्य शुद्धदक्षिणवर्त्तिवरदामतीर्थं व्रजतः आग्नेय्या
For Private & Personal Use Only.
३ वक्षस्कारे मागधतीकुमारसाधनं सू.
४५
॥२०४॥
w.jainelibrary.org